६.५७

अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥

अन्वयः

(त्वम्) द्वीपान्तर-आनीत-लवङ्ग-पुष्पैः मरुद्भिः अपाकृत-स्वेद-लवा (सती) तालीवनमर्मरेषु अम्बुराशेः तीरेषु अनेन सार्धम् विहर ।

सञ्जीविनीटीका (मल्लिनाथः)

अनेनेति॥ अनेन राज्ञा सार्धं तालीवनैर्मर्मरेषु मर्मरेति ध्वनत्सु। अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्इत्यमरवचनाद्गुणपरस्यापि मर्मर शब्दस्य गुणिपरत्वं प्रयोगादवसेयम्। अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः। लवङ्गं देवकुसुमम् इत्यमरः (अमरकोशः २.६.१२६ ) । मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ॥

English Summary

Sunanda tells Indumati: "Enjoy yourself with this king on the shores of the ocean, which rustle with palm groves, while the breezes, carrying the fragrance of clove flowers brought from other islands, remove your beads of perspiration."

पदच्छेदः

अनेनअदस् (३.१) with this
सार्धम्सार्धम् with
विहरविहर (वि√हृ कर्तरि लोट् (परस्मै.) म.पु. एक.) sport
अम्बुराशेःअम्बुराशि (६.१) of the ocean
तीरेषुतीर (७.३) on the shores
तालीवनमर्मरेषुताली–वन–मर्मर (७.३) which rustle with palm groves
द्वीपान्तरानीतलवङ्गपुष्पैःद्वीपान्तर–आनीत–लवङ्ग–पुष्प (३.३) by (breezes) with clove flowers brought from other islands
अपाकृतस्वेदलवाअपाकृत–स्वेद–लव (१.१) you whose drops of perspiration are removed
मरुद्भिःमरुत् (३.३) by the breezes

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
ने सा र्धंवि राम्बु रा शे
स्ती रेषु ता लीर्म रेषु
द्वी पान्त रा नीङ्ग पु ष्पै
पाकृ स्वे वा रु द्भिः