तस्यां रघोः सूनुरुपस्थितायां
वृणीत मां नेति समाकुलोऽभूत् ।
वामेतरः संशयमस्य बाहुः
केयूरबन्धोच्छ्वसितैर्नुनोद ॥

अन्वयः AI तस्याम् उपस्थितायाम् (सत्याम्), रघोः सूनुः "माम् वृणीत न वा" इति सम्-आकुलः अभूत् । अस्य वाम-इतरः बाहुः केयूर-बन्ध-उच्छ्वसितैः संशयम् नुनोद ।
सञ्जीविनीटीका (मल्लिनाथः) तस्यामिति॥ तस्यामिन्दुमत्यामुपस्थितायामासन्नायां सत्यां रघोः सूनुरजो मां वृणीत न वेति समाकुलः संशयितोऽभूत्। अथास्याजस्य वामेतरो वामादितरो दक्षिणो बाहुः। केयूरं बध्यतेऽत्रेति केयूरबन्धोऽङ्गदस्थानम्। तस्योच्छ्वसितैः स्फुरणैः संशयं नुनोद ॥
Summary AI When she approached, the son of Raghu (Aja) became anxious, thinking, "Will she choose me or not?" But his right arm, by the throbbing of its armlet-band, dispelled his doubt.
सारांश AI रघु के पुत्र अज उन्हें अपनी ओर आता देख व्याकुल थे कि वे उन्हें चुनेंगी या नहीं। तभी उनकी दाहिनी भुजा फड़कने लगी, जिसने उनकी आशंका को दूर कर सफलता का संकेत दिया।
पदच्छेदः AI
तस्याम्तद् (७.१) When she
रघोःरघु (६.१) of Raghu
सूनुःसूनु (१.१) the son (Aja)
उपस्थितायाम्उपस्थित (उप√स्था+क्त+टाप्, ७.१) approached
वृणीतवृणीत (√वृ कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) would choose
माम्अस्मद् (२.१) me
not
इतिइति thus
समाकुलःसम्-आकुल (१.१) anxious
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) became
वामेतरःवामइतर (१.१) The right
संशयम्संशय (२.१) doubt
अस्यइदम् (६.१) his
बाहुःबाहु (१.१) arm
केयूरबन्धोच्छ्वसितैःकेयूरबन्धउच्छ्वसित (३.३) by the throbbing of the armlet-band
नुनोदनुनोद (√नुद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) dispelled
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्यां घोः सू नु रु स्थि ता यां
वृ णी मां ने ति मा कु लो ऽभूत्
वा मे रः सं स्य बा हुः
के यू न्धो च्छ्व सि तै र्नु नो
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.