यस्मिन्महीं शासति वाणिनीनां
निद्रां विहारार्धपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि
को लम्बयेदाहरणाय हस्तम् ॥

अन्वयः AI यस्मिन् महीम् शासति (सति), विहार-अर्ध-पथे निद्राम् गतानाम् वाणिनीनाम् अंशुकानि वातः अपि न अस्रंसयत् । कः आहरणाय हस्तम् लम्बयेत्?
सञ्जीविनीटीका (मल्लिनाथः) यस्मिन्निति॥ यस्मिन् दिलीपे महीं शासति सति। विहरत्यत्रेति विहारः क्रीडास्थानम्। तस्यार्धपथे निद्रां गतानां वाणिनीनां मत्ताङ्गनानाम्। वाणिनी नर्तकीमत्ताविदग्धवनितासु च इति विश्वः। वाणिन्यौ नर्तकीमत्तेैइत्यमरश्च। अंशुकानि वस्त्राणि वातोऽपि नास्रंसयन्नाकम्पयत्। आहरणायापहर्तुं को हस्तं लम्बयेत्? तस्याज्ञासिद्धत्वादकुतोभयसंचाराः प्रजा इत्यर्थः। अर्धश्चासौ पन्थाश्चेति विग्रहः। समप्रविभागे प्रमाणाभावान्नैकदेशिसमासः ॥
Summary AI "While he (Dilipa) ruled the earth, even the wind did not dare to displace the garments of female artisans who had fallen asleep halfway through their pleasure walks. Who then would dare stretch out a hand to steal them?"
सारांश AI दिलीप के शासन में नैतिकता ऐसी थी कि मार्ग में सोती हुई स्त्रियों के वस्त्र वायु भी नहीं हटा पाती थी, फिर किसी मनुष्य द्वारा चोरी का साहस करना तो असंभव था।
पदच्छेदः AI
यस्मिन्यद् (७.१) While he
महीम्मही (२.१) the earth
शासतिशासत् (√शास्+शतृ, ७.१) was ruling
वाणिनीनाम्वाणिनी (६.३) of female artisans
निद्राम्निद्रा (२.१) sleep
विहारार्धपथेविहारअर्धपथ (७.१) halfway on their pleasure walk
गतानाम्गत (√गम्+क्त, ६.३) who had gone to
वातःवात (१.१) the wind
अपिअपि even
not
अस्रंसयत्अस्रंसयत् (√स्रंस् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) displace
अंशुकानिअंशुक (२.३) the garments
कःकिम् (१.१) Who
लम्बयेत्लम्बयेत् (√लम्ब् +णिच् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would stretch out
आहरणायआहरण (४.१) to steal
हस्तम्हस्त (२.१) a hand
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
स्मि न्म हीं शा ति वा णि नी नां
नि द्रां वि हा रा र्ध थे ता नाम्
वा तो ऽपि ना स्रं दं शु का नि
को म्ब ये दा णा स्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.