Loading data... On slow networks this could take a few minutes.
100%

असौ कुमारस्तमजोऽनुजात-
स्त्रिविष्टपस्येव पतिं जयन्तः ।
गुर्वी धुरं यो भुवनस्य पित्रा
धुर्येण दम्यः सदृशं बिभर्ति ॥

अन्वयः AI असौ कुमारः अजः, त्रिविष्टपस्य पतिम् अनुजातः जयन्तः इव (अस्ति) । यः दम्यः (सन्) धुर्येण पित्रा (दत्ताम्) भुवनस्य गुर्वीम् धुरम् सदृशम् बिभर्ति ।
सञ्जीविनीटीका (मल्लिनाथः) असाविति॥ असावजाख्यः कुमारः। त्रिविष्टपस्य स्वर्गस्य पतिमिन्द्रं जयन्त इव। जयन्तः पाकशासनिः इत्यमरः (अमरकोशः १.१.५६ ) । तं रघुमनुजातः। तस्माज्जात इत्यर्थः। तज्जातोऽपि तदनुजातो भवति; जन्यजनकयोरानन्तर्यात्। गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च (अष्टाध्यायी ३.४.७२ ) इति क्तः। सोपसृष्टत्वात्सकर्मकत्वम्। आह चात्रैव सूत्रे वृत्तिकारः-श्लिषादयः सोपसृष्टाः सकर्मका भवन्ति इति। दम्यः शिक्षणीयावस्थः। योऽजो गुर्वीं भुवनस्य धुरं धुर्येण धुरंधरेण चिरनिरूढेन पित्रा सदृशं तुल्यं यथा तथा बिभर्ति। यथा कश्चिद्वत्सतरोऽपि धुर्येण महोक्षेण समं वहतीत्युपमालंकारो ध्वन्यते। दम्यवत्सतरौ समौ इत्यमरः (अमरकोशः २.९.६३ )
Summary AI This prince, Aja, is born after his father Raghu, just as Jayanta was born after his father Indra, the lord of heaven. Like a young bullock fit for the yoke, he fittingly bears the heavy burden of the world, a responsibility given by his father, who is an expert in bearing such burdens.
सारांश AI यह राजकुमार अज उन्हीं रघु के पुत्र हैं, जैसे इंद्र के पुत्र जयंत। वे अभी युवा होकर भी अपने पिता के समान ही पृथ्वी के भारी उत्तरदायित्व को बखूबी निभा रहे हैं।
पदच्छेदः AI
असौअदस् (१.१) This
कुमारःकुमार (१.१) prince
तम्तद् (२.१) him (Raghu)
अजःअज (१.१) Aja
अनुजातःअनुजात (अनु√जन्+क्त, १.१) born after
त्रिविष्टपस्यत्रिविष्टप (६.१) of heaven
इवइव like
पतिम्पति (२.१) the lord (Indra)
जयन्तःजयन्त (१.१) Jayanta
गुर्वीम्गुर्वी (२.१) heavy
धुरम्धुरा (२.१) yoke/burden
यःयद् (१.१) who
भुवनस्यभुवन (६.१) of the world
पित्रापितृ (३.१) by his father
धुर्येणधुर्य (३.१) by the expert carrier of burdens
दम्यःदम्य (१.१) a young bullock fit for the yoke
सदृशम्सदृश fittingly
बिभर्तिबिभर्ति (√भृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) bears
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सौ कु मा स्त जो ऽनु जा
स्त्रि वि ष्ट स्ये तिं न्तः
गु र्वी धु रं यो भु स्य पि त्रा
धु र्ये म्यः दृ शं बि र्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.