कुलेन कान्त्या वयसा नवेन
गुणैश्च तैस्तैर्विनयप्रधानैः ।
त्वमात्मनस्तुल्यममुं वृणीष्व
रत्नं समागच्छतु काञ्चनेन ॥

अन्वयः AI त्वम् कुलेन, कान्त्या, नवेन वयसा, विनयप्रधानैः तैः तैः गुणैः च आत्मनः तुल्यम् अमुम् वृणीष्व । रत्नम् काञ्चनेन समागच्छतु ।
सञ्जीविनीटीका (मल्लिनाथः) कुलेनेति॥ कुलेन कान्त्या लावण्येन नवेन वयसा यौवनेन विनयः प्रधानं येषां तैस्तैर्गुणैः श्रुतशीलादिभिश्चात्मनस्तुल्यं स्वानुरूपममुमजं त्वं वृणीष्व। किं बहुना, रत्नं काञ्चनेन समागच्छतु संगच्छताम्। प्रार्थनायां लोट्। रत्नकाञ्चनयोरिवात्यन्तानुरूपत्वाद्युवयोः समागमः प्रार्थ्यत इत्यर्थः ॥
Summary AI Sunanda urges Indumati: "By lineage, beauty, youth, and by those various virtues led by humility, choose him, who is your equal. Let the jewel (you) be united with gold (him)."
सारांश AI कुल, कांति, आयु और विनय आदि गुणों में यह तुम्हारे ही समान हैं। तुम इन्हें अपना पति चुनो, क्योंकि मणि और सोने का मिलन ही सर्वश्रेष्ठ होता है।
पदच्छेदः AI
कुलेनकुल (३.१) by lineage
कान्त्याकान्ति (३.१) by beauty
वयसावयस् (३.१) by age
नवेननव (३.१) youthful
गुणैःगुण (३.३) by virtues
and
तैःतद् (३.३) by those
तैःतद् (३.३) by those
विनयप्रधानैःविनयप्रधान (३.३) in which humility is foremost
त्वम्युष्मद् (१.१) You
आत्मनःआत्मन् (६.१) your own
तुल्यम्तुल्य (२.१) equal
अमुम्अदस् (२.१) him
वृणीष्ववृणीष्व (√वृ कर्तरि लोट् (आत्मने.) म.पु. एक.) choose
रत्नम्रत्न (१.१) A jewel
समागच्छतुसमागच्छतु (सम्+आ√गम् कर्तरि लोट् (परस्मै.) प्र.पु. एक.) let it be united
काञ्चनेनकाञ्चन (३.१) with gold
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कु ले का न्त्या सा वे
गु णै श्च तै स्तै र्वि प्र धा नैः
त्व मा त्म स्तु ल्य मुं वृ णी ष्व
त्नं मा च्छ तु का ञ्च ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.