परस्परेण स्पृहणीयशोभं
न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः
पत्युः प्रजानां वितथोऽभविष्यत् ॥

अन्वयः AI (विधिः) परस्परेण स्पृहणीय-शोभम् इदम् द्वन्द्वम् न अयोजयिष्यत् चेत्, प्रजानाम् पत्युः अस्मिन् द्वये रूप-विधान-यत्नः वितथः अभविष्यत् ।
सञ्जीविनीटीका (मल्लिनाथः) परस्परेणेति॥ स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्वं मिथुनम्। द्वन्द्वं रहस्य- (अष्टाध्यायी ८.१.१५ ) इत्यादिना निपातः। परस्परेण नायोजयिष्यञ्चेत् न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलोऽभविष्यत्। एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः। लिङ्निमित्ते लृङ्क्रियातिपत्तौ (अष्टाध्यायी ३.३.१३९ ) इति लृङ्। कुतश्चित्कारणवैगुण्याक्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः इति वृत्तिकारः ॥
Summary AI If the Creator had not united this couple, whose beauty was desirable to each other, then the Creator's effort in fashioning the beauty of this pair would have been in vain.
सारांश AI यदि विधाता इन दोनों का मिलन न करवाते, तो इन दोनों के अनुपम सौंदर्य को गढ़ने में किया गया उनका सारा पुरुषार्थ और श्रम व्यर्थ ही चला जाता।
पदच्छेदः AI
परस्परेणपरस्पर (३.१) by each other
स्पृहणीयशोभम्स्पृहणीयशोभ (२.१) whose beauty is desirable
not
चेत्चेत् if
इदम्इदम् (२.१) this
द्वन्द्वम्द्वन्द्व (२.१) couple
अयोजयिष्यत्अयोजयिष्यत् (आ√युज् +णिच् कर्तरि लृङ् (परस्मै.) प्र.पु. एक.) had united
अस्मिन्इदम् (७.१) in this
द्वयेद्वय (७.१) pair
रूपविधानयत्नःरूपविधानयत्न (१.१) the effort in creating beauty
पत्युःपति (६.१) of the lord
प्रजानाम्प्रजा (६.३) of creatures (the Creator)
वितथःवितथ (१.१) in vain
अभविष्यत्अभविष्यत् (√भू कर्तरि लृङ् (परस्मै.) प्र.पु. एक.) would have been
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्प रे स्पृ णी शो भं
चे दि दं द्व न्द्व यो यि ष्यत्
स्मि न्द्व ये रू वि धा त्नः
त्युः प्र जा नां वि थो ऽभ वि ष्यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.