रतिस्मरौ नूनमिमावभूतां
राज्ञां सहस्रेषु तथा हि बाला ।
गतेयमात्मप्रतिरूपमेव
मनो हि जन्मान्तरसंगतिज्ञम् ॥

अन्वयः AI नूनम् इमौ रति-स्मरौ अभूताम् । तथा हि इयम् बाला राज्ञाम् सहस्रेषु आत्म-प्रतिरूपम् एव गता । हि मनः जन्मान्तर-संगति-ज्ञम् (भवति) ।
सञ्जीविनीटीका (मल्लिनाथः) रतीति॥ रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः। नूनं तावेवेयं चायं चेमौ दंपती। अभूताम्। एतद्रूपेणोत्पन्नौ। कुतः? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये। सत्यपि व्यत्यासकरण इति भावः। आत्मप्रतिरूपं स्वतुल्यमेव। तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति। तदेवेदम् इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम्। जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥
Summary AI Surely, these two were Rati and Kamadeva reborn. For, among thousands of kings, this young woman went only to the one who was her own counterpart. Indeed, the mind knows the connections from past lives.
सारांश AI निश्चय ही ये दोनों रति और कामदेव हैं। इन्दुमती ने हजारों राजाओं में से अपने अनुरूप अज को ही चुना, क्योंकि हृदय पूर्वजन्म के संबंधों को पहचान लेता है।
पदच्छेदः AI
रतिस्मरौरतिस्मर (१.२) Rati and Smara (Kamadeva)
नूनम्नूनम् surely
इमौइदम् (१.२) these two
अभूताम्अभूताम् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. द्वि.) were
राज्ञाम्राजन् (६.३) of kings
सहस्रेषुसहस्र (७.३) among thousands
तथातथा for so
हिहि for
बालाबाला (१.१) the young woman
गतागत (√गम्+क्त, १.१) has gone to
इयम्इदम् (१.१) this
आत्मप्रतिरूपम्आत्मन्प्रतिरूप (२.१) one who is a reflection of herself
एवएव only
मनःमनस् (१.१) the mind
हिहि for
जन्मान्तरसंगतिज्ञम्जन्मान्तरसंगतिज्ञ (१.१) is a knower of associations from previous births
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ति स्म रौ नू मि मा भू तां
रा ज्ञां स्रे षु था हि बा ला
ते मा त्म प्र ति रू मे
नो हि न्मा न्त सं ति ज्ञम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.