Loading data... On slow networks this could take a few minutes.
100%

स राजलोकः कृतपूर्वसंवि-
दारम्भसिद्धौ समयोपलभ्यम् ।
आदास्यमानः प्रमदामिषं
तदावृत्य पन्थानमजस्य तस्थौ ॥

अन्वयः AI तद् कृतपूर्वसंविद् सः राजलोकः आरम्भसिद्धौ समय-उपलभ्यम् प्रमदाम्-इषम् आदास्यमानः (सन्) अजस्य पन्थानम् आवृत्य तस्थौ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ आरम्भसिद्धौ कार्यसिद्धौ विषये। पूर्वं कृता कृतपूर्वा। सुप्सुपेति समासः। कृतपूर्वा संवित् संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः। संविद्युद्धेप्रतिज्ञायां संकेताचारनामसु इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम्। तदा तस्यैकाकित्वादिति भावः। समरोपलभ्यम् इति पाठे युद्धसाध्यमित्यर्थः। तत्प्रमदैवामिषं भोग्यवस्तु। आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि इति केशवः। आदास्यमानो ग्रहीष्यमाणः सन्, अजस्य पन्थानमावृत्यावरुध्य तस्थौ ॥
Summary AI That host of kings, who had made a prior agreement, intending to seize the prize of the maiden which was obtainable at the right time for the success of their undertaking, blocked the path of Aja and stood waiting.
सारांश AI उन राजाओं ने पहले ही षड्यंत्र कर लिया था। वे अज के मार्ग को घेरकर खड़े हो गए ताकि अवसर पाकर इंदुमती रूपी रत्न को बलपूर्वक छीन सकें।
पदच्छेदः AI
सःतद् (१.१) that
राजलोकःराजन्लोक (१.१) host of kings
कृतपूर्वसंविद्कृतपूर्वसंविद् (१.१) who had made a prior agreement
आरम्भसिद्धौआरम्भसिद्धि (७.१) for the success of the undertaking
समय-उपलभ्यम्समयउपलभ्य (२.१) obtainable at the right time
आदास्यमानःआदास्यमान (आ√दा+स्य+शानच्, १.१) about to take
प्रमदाम्-इषम्प्रमदाइष (२.१) the prize of the maiden
तद्तद् therefore
आवृत्यआवृत्य (आ√वृ+ल्यप्) having blocked
पन्थानम्पथिन् (२.१) the path
अजस्यअज (६.१) of Aja
तस्थौतस्थौ (√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) stood
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
रा लो कः कृ पू र्व सं वि
दा म्भ सि द्धौ यो भ्यम्
दा स्य मा नः प्र दा मि षं
दा वृ त्य न्था स्य स्थौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.