Loading data... On slow networks this could take a few minutes.
100%

सर्वैर्बलाङ्गैर्द्विरदप्रधानैः
सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपाला-
स्तस्मिन्प्रजह्रुर्युधि सर्व एव ॥

अन्वयः AI युधि सर्वे एव भूमिपालाः द्विरद-प्रधानैः सर्वैः बल-अङ्गैः, कङ्कट-भेदिभिः सर्व-आयुधैः च, सर्व-प्रयत्नेन च तस्मिन् प्रजह्रुः।
सञ्जीविनीटीका (मल्लिनाथः) सर्वैरिति॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः। हस्त्यश्वरथपादातं सेनाङ्गं स्याञ्चतुष्टयम् इत्यमरः। कङ्कटभेदिभिः ककवचभेदिभिः। उरश्छदःकङ्कटकोऽजगरः कवचोऽस्त्रियाम् इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह-सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः। तं प्रजह्रुरित्यर्थः। सर्वत्र सर्वकारकशक्तिसंभवात्कर्मणोऽप्यधिकरणविवक्षायां सप्तमी। तदुक्तम्-अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते
Summary AI In that battle, all the kings, with all their effort, attacked him (Aja) with all divisions of their armies—chief among them the elephants—and with all their armor-piercing weapons.
सारांश AI सभी राजाओं ने हाथियों की प्रमुखता वाली अपनी पूरी सेना, कवच भेदने वाले अस्त्र-शस्त्रों और अपने सम्पूर्ण सामर्थ्य के साथ अकेले राजकुमार अज पर आक्रमण कर दिया।
पदच्छेदः AI
सर्वैःसर्व (३.३) with all
बलाङ्गैःबलअङ्ग (३.३) divisions of the army
द्विरदप्रधानैःद्विरदप्रधान (३.३) in which elephants were chief
सर्वायुधैःसर्वआयुध (३.३) with all weapons
कङ्कटभेदिभिःकङ्कटभेदिन् (३.३) armor-piercing
and
सर्वप्रयत्नेनसर्वप्रयत्न (३.१) with all effort
and
भूमिपालाःभूमिपाल (१.३) the kings
तस्मिन्तद् (७.१) on him
प्रजह्रुःप्रजह्रुः (प्र√हृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) attacked
युधियुध् (७.१) in battle
सर्वेसर्व (१.३) all
एवएव indeed
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
र्वै र्ब ला ङ्गै र्द्वि प्र धा नैः
र्वा यु धैः ङ्क भे दि भि श्च
र्व प्र त्ने भू मि पा ला
स्त स्मि न्प्र ह्रु र्यु धि र्व
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.