अथ तस्य विवाहकौतुकं
ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनी-
मकरोदिन्दुमतीमिवापराम् ॥

अन्वयः AI अथ पार्थिवः (रघुः) ललितम् विवाह-कौतुकम् बिभ्रतः एव तस्य (अजस्य) इन्दुमतीम् इव अपराम् वसुधाम् अपि हस्त-गामिनीम् अकरोत् ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव। कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले इति शाश्वतः। तस्याजस्य। अपरामिन्दुमतीमिव। वसुधामपि हस्तगामिनीमकरोत्। अस्मिन्सर्गे वैतालीयं छन्दः ॥
Summary AI Then, while Aja was still experiencing the charming festivities of his wedding, the king (Raghu) made the earth, like a second Indumati, also come into his hands, effectively making Aja the new king.
सारांश AI जब अज विवाह का कंगन पहने हुए ही थे, तब राजा रघु ने उन्हें इन्दुमती के समान ही पृथ्वी भी सौंप दी।
पदच्छेदः AI
अथअथ Then
तस्यतद् (६.१) his
विवाहकौतुकम्विवाहकौतुक (२.१) the festivity of marriage
ललितम्ललित (२.१) charming
बिभ्रतःबिभ्रत् (√भृ+शत्रृ, ६.१) of him who was bearing
एवएव just
पार्थिवःपार्थिव (१.१) the king
वसुधाम्वसुधा (२.१) the earth
अपिअपि also
हस्तगामिनीम्हस्तगामिन् (२.१) coming into the hand
अकरोत्अकरोत् (√कृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) made
इन्दुमतीम्इन्दुमती (२.१) Indumati
इवइव like
अपराम्अपर (२.१) another
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
स्य वि वा कौ तु कं
लि तं बि भ्र पा र्थि वः
सु धा पि स्त गा मि नी
रो दि न्दु ती मि वा राम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.