स किलाश्रममन्त्यमाश्रितो
निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया
स्नुषयेवाविकृतेन्द्रियः श्रिया ॥

अन्वयः AI किल अन्त्यम् आश्रमम् आश्रितः पुरात् बहिः आवसथे निवसन् सः अविकृत-इन्द्रियः (सन्) पुत्र-भोग्यया श्रिया स्नुषया इव समुपास्यत ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः। जितेन्द्रियः सन्नित्यर्थथः। अत एव स्नुषयेव वध्वेव पुत्रभोग्यया न स्वभोग्यया। श्रिया समुपास्य शुश्रूषितः। जितेन्द्रियस्य तस्य स्नुषयेव श्रियापिपुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः॥ अत्र यद्यपिब्राह्मणाः प्रव्रजन्तिइति श्रुतेः।आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्(६।३८) इति मनुस्मरणात्। मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते॥इति निषेधाञ्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः। तथापियदहरेव विरजेत्तदहरेव प्रव्रजेत्इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्।त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाःइति सूत्रकारवचनात्।ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्(मनु.१०।११७) इति स्मरणात्। मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते॥इति निषेधस्य त्रिदण्डविषयत्वदर्शनाञ्च। कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैवर्णिकाधिकारं प्रतिपेदिरे। तथा सतिस किलाश्रममन्त्यमाश्रितः(८।१४)इत्यत्रापि कवनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याते विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्`(८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात्; अग्निसंस्काररहितस्य वानप्रस्थास्यैवाभावात् इत्यलं प्रासङ्गिकेन ॥
Summary AI Having entered the final stage of life (Vanaprastha) and living in a dwelling outside the city, he (Raghu), with his senses unperturbed, was served by the royal fortune—now enjoyed by his son—as if by a daughter-in-law.
सारांश AI नगर के बाहर आश्रम में रहते हुए इन्द्रियजित रघु ने राजलक्ष्मी की सेवा वैसे ही स्वीकार की जैसे पुत्र द्वारा भोगी जाने वाली पुत्रवधू ससुर की सेवा करती है।
पदच्छेदः AI
सःतद् (१.१) He
किलकिल indeed
आश्रमम्आश्रम (२.१) stage of life
अन्त्यम्अन्त्य (२.१) the final
आश्रितःआश्रित (आ√श्रि+क्त, १.१) having entered
निवसन्निवसत् (नि√वस्+शत्रृ, १.१) living
आवसथेआवसथ (७.१) in a dwelling
पुरात्पुर (५.१) from the city
बहिःबहिर् outside
समुपास्यतसमुपास्यत (सम्+उप√आस् भावकर्मणोः लङ् (आत्मने.) प्र.पु. एक.) was served
पुत्रभोग्ययापुत्रभोग्य (√भोग्य+ण्यत्, ३.१) by that which was to be enjoyed by his son
स्नुषयास्नुषा (३.१) by a daughter-in-law
इवइव as if
अविकृतेन्द्रियःअविकृतइन्द्रिय (१.१) he whose senses were unperturbed
श्रियाश्री (३.१) by the royal fortune
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कि ला श्र न्त्य मा श्रि तो
नि न्ना थे पु रा द्ब हिः
मु पा स्य पु त्र भो ग्य या
स्नु ये वा वि कृ ते न्द्रि यः श्रि या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.