Loading data... On slow networks this could take a few minutes.
100%

पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्षअय तत्फलम् । रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः ॥

अन्वयः AI अजः तत्-फलम् समीक्ष्य पणबन्ध-मुखान् षट् गुणान् उपायुङ्क्त । सम-लोष्ट-काञ्चनः रघुः अपि प्रकृतिस्थं गुण-त्रयं अजयत् ।
सञ्जीविनीटीका (मल्लिनाथः) पणबन्धेति॥ पणबन्धः संधिः इति कौटिल्यः। अजः पणबन्धमुखान् संध्यादीन्षङ्गुणान्। संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः। षङ्गुणाः इत्यमरः (अमरकोशः २.९.१२ ) । तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्य। उपायुङ्क्त। फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः। प्रोपाभ्यां युजेरयज्ञपात्रेषु (अष्टाध्यायी १.३.६४ ) इत्यात्मनेपदम्। समस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः निःस्पृह इत्यर्थः। लोष्टानि लेष्टवः पुंसि इत्यमरः (अमरकोशः २.९.१२ ) । रघुरपि गुणत्रयं सत्त्वादिकम्। गुणाः सत्त्वं रजस्तमः इत्यमरः (अमरकोशः १.४.३१ ) । प्रकृतौ साम्यावस्थायमेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ॥
Summary AI Aja, after carefully considering their outcomes, employed the six political strategies starting with treaties. Raghu, who regarded a clod of earth and gold as equal, conquered the three qualities (sattva, rajas, tamas) inherent in nature.
सारांश AI राजा अज ने संधि-विग्रह आदि छह गुणों के फल पर विचार कर उनका प्रयोग किया, जबकि समदर्शी रघु ने सत्व, रज और तम गुणों को जीतकर प्रकृतिस्थ अवस्था प्राप्त की।
पदच्छेदः AI
पणबन्धमुखान्पणबन्धमुख (२.३) beginning with treaty-making
गुणान्गुण (२.३) the (six) political expedients
अजःअज (१.१) Aja
षट्षष् (२.३) six
उपायुङ्क्तउपायुङ्क्त (उप√युज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) employed
समीक्ष्यसमीक्ष्य (सम्√ईक्ष्+ल्यप्) having considered
तत्फलम्तत्फल (२.१) their results
रघुःरघु (१.१) Raghu
अपिअपि also
अजयत्अजयत् (√जि कर्तरि लङ् (परस्मै.) प्र.पु. एक.) conquered
गुणत्रयंगुणत्रय (२.१) the triad of qualities (sattva, rajas, tamas)
प्रकृतिस्थंप्रकृतिस्थ (२.१) residing in nature
समलोष्टकाञ्चनःसमलोष्टकाञ्चन (१.१) he who considered a clod of earth and gold as equal
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.