Loading data... On slow networks this could take a few minutes.
100%

ऋषिदेवगणस्वधाभुजां
श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ
परिधेर्मुक्त इवोष्णदीधितिः ॥

अन्वयः AI सः पार्थिवः श्रुत-याग-प्रसवैः ऋषि-देव-गण-स्वधाभुजाम् अनृणत्वम् उपेयिवान्, परिधेः मुक्तः उष्ण-दीधितिः इव बभौ ।
सञ्जीविनीटीका (मल्लिनाथः) ऋषीति॥ श्रुतयागप्रसवैरध्ययनयज्ञसंतानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वम्। उपेयिवान् प्राप्तवान्। एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा इति श्रुतेः। स पार्थिवोऽजः परिधेः परिवेषात्। परिवेषस्तु परिधिः इत्यमरः (अमरकोशः १.३.३६ ) । मुक्तो पार्थिवोऽजः परिधेः परिवेषात्। परिवेषस्तु परिधिः इत्यमरः (अमरकोशः १.३.३६ ) । मुक्तोनिर्गतः। कर्मकर्ता। उष्णदीधितिः सूर्य इव। बभौ दिदीपे। इत्युपमा ॥
Summary AI That king (Dasharatha), having become free from his three debts to the sages, gods, and ancestors through study, sacrifices, and progeny respectively, shone brightly, like the sun freed from its halo during an eclipse.
सारांश AI शास्त्रों के अध्ययन, यज्ञों और पुत्र प्राप्ति से ऋषि, देव तथा पितृ ऋणों से मुक्त होकर राजा दशरथ राहु से मुक्त सूर्य के समान चमकने लगे।
पदच्छेदः AI
ऋषिदेवगणस्वधाभुजांऋषिदेवगणस्वधाभुज् (६.३) of the sages, gods, and ancestors
श्रुतयागप्रसवैःश्रुतयागप्रसव (३.३) by study, sacrifices, and progeny
तद् (१.१) that
पार्थिवःपार्थिव (१.१) king (Dasharatha)
अनृणत्वम्अनृणत्व (२.१) freedom from debt
उपेयिवान्उपेयिवस् (उप√इ+क्वसु, १.१) having attained
बभौबभौ (√भा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) shone
परिधेःपरिधि (५.१) from the halo
मुक्तःमुक्त (√मुच्+क्त, १.१) freed
इवइव like
उष्णदीधितिःउष्णदीधिति (१.१) the sun
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
षि दे स्व धा भु जां
श्रु या प्र वैः पा र्थि वः
नृ त्व मु पे यि वा न्ब भौ
रि धे र्मु क्त वो ष्ण दी धि तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.