८.३२

स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥

अन्वयः

कदाचित् अवेक्षित-प्रजः सुप्रजाः सः (अजः) देव्या (इन्दुमत्या) सह नगर-उपवने विजहार, शची-सखः मरुतां पालयिता नन्दने इव ।

सञ्जीविनीटीका (मल्लिनाथः)

स इति॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः। नित्यमसिच्प्रजामेधयोः (अष्टाध्यायी ५.४.१२२ ) इत्यसिच्प्रत्ययः। न केवलं स्त्रैण इति भावः। शोभना प्रजा यस्यासा सुप्रजाः सुपुत्रवान्। पुत्रन्यस्तभार इति भावः। सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने। नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः। शच्या सहेत्यर्थः। मरुतां देवानां पालयितेन्द्र इव। विजहार चिक्रीड॥

English Summary

Once, Aja, blessed with a good son and having delegated the care of his subjects, sported with his queen in the city garden, just as Indra, the protector of the gods and companion of Shachi, does in the Nandana garden.

पदच्छेदः

सःतद् (१.१) he (Aja)
कदाचित्कदाचित् once
अवेक्षितप्रजःअवेक्षित–प्रजा (१.१) one who had delegated the care of his subjects
सहसह with
देव्यादेवी (३.१) his queen (Indumati)
विजहारविजहार (वि√हृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) sported
सुप्रजाःसु–प्रजा (१.१) blessed with a good son
नगरोपवनेनगर–उपवन (७.१) in the city garden
शचीसखःशची–सखि (१.१) the companion of Shachi (Indra)
मरुतांमरुत् (६.३) of the gods
पालयितापालयितृ (१.१) the protector
इवइव like
नन्दनेनन्दन (७.१) in the Nandana garden

छन्दः

वियोगिनी []

छन्दोविश्लेषणम्

१०११
दाचि वेक्षिप्र जः
दे व्यावि हा सुप्र जाः
रो ने ची खो
रु तां पायि तेन्द ने