कुसुमैर्ग्रथितामपार्थिवैः
स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवा-
नधिवासस्पृहयेव मारुतः ॥

अन्वयः AI वेगवान् मारुतः अधिवास-स्पृहया इव तस्य आतोद्य-शिरः-निवेशिताम् अपार्थिवैः कुसुमैः ग्रथितां स्रजम् अहरत् किल ।
सञ्जीविनीटीका (मल्लिनाथः) कुसुमैरिति॥ आपार्थिवैरभौमैः। दिव्यैरित्यर्थः। कुसुमैर्ग्रथितां रचिताम्। तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् इत्यमरः (अमरकोशः १.७.६ ) । स्रजं मालां वेगवान्मारुतः। अधिवासे वासनायां स्पृहयेव। स्रजा स्वाङ्गं संस्कर्तुमित्यर्थः। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् इत्यमरः (अमरकोशः २.६.१३५ ) । अहरत्किल। किलइत्यैतिह्ये ॥
Summary AI A swift gust of wind, as if desiring its fragrance, reportedly snatched away from his (Narada's) Vina a garland woven with celestial flowers that was placed on its head.
सारांश AI तभी वेगवती वायु ने नारद की वीणा के अग्रभाग पर रखी हुई दिव्य पुष्पों की माला को उसकी सुगंध के लोभ में मानो हर लिया।
पदच्छेदः AI
कुसुमैःकुसुम (३.३) with flowers
ग्रथिताम्ग्रथित (√ग्रन्थ्+क्त, २.१) woven
अपार्थिवैःपार्थिव (३.३) celestial (not earthly)
स्रजम्स्रज् (२.१) a garland
आतोद्यशिरोनिवेशिताम्आतोद्यशिरस्निवेशित (२.१) placed on the head of the musical instrument (Vina)
अहरत्अहरत् (√हृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) snatched away
किलकिल reportedly
तस्यतद् (६.१) his
वेगवान्वेगवत् (१.१) a swift
अधिवासस्पृहयेव as if with a desire for its fragrance
मारुतःमारुत (१.१) wind
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कु सु मै र्ग्र थि ता पा र्थि वैः
स्र मा तो द्य शि रो नि वे शि ताम्
त्कि स्य वे वा
धि वा स्पृ ये मा रु तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.