स बभूव दुरासदः परै-
र्गुरुणाऽथर्वविदा कृताक्रियः ।
पवनाग्निसमागमो ह्ययं
सहतिं ब्रह्म यदस्त्रतेजसा ॥

अन्वयः AI अथर्व-विदा गुरुणा कृत-आक्रियः सः परैः दुरासदः बभूव । हि यत् ब्रह्म अस्त्र-तेजसा सहति, अयम् (समागमो) पवन-अग्नि-समागमः (इव) ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः। सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव। तथा हि-अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः। पवनाग्निइत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् द्वन्द्वे घि (पा.२।२३२)इति नाग्निशब्दस्य पूर्वनिपातः। तथा च काशिकायाम्-अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्इति। क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः। अत्र मनुः-नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते। ब्रह्मक्षत्रे तु संयुक्ते हहामुत्र च वर्धते॥ इति ॥
Summary AI Having had the protective rites performed by his preceptor who knew the Atharva Veda, he (Aja) became unassailable by his enemies. Indeed, this was like the union of wind and fire, where spiritual power from the rites combines with the might of weapons.
सारांश AI अथर्ववेद के ज्ञाता गुरु वशिष्ठ द्वारा संस्कारित अज शत्रुओं के लिए वैसे ही अजेय हो गए जैसे पवन और अग्नि का मिलन होने पर तेज बढ़ जाता है।
पदच्छेदः AI
सःतद् (१.१) He
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) became
दुरासदःदुर्आसद (१.१) unassailable
परैःपर (३.३) by enemies
गुरुणागुरु (३.१) by the preceptor
अथर्वविदाअथर्वन्विद् (३.१) who knew the Atharva Veda
कृताक्रियःकृत (√कृत+क्त)–आक्रिया (१.१) for whom protective rites were performed
पवनाग्निसमागमःपवनअग्निसमागम (१.१) the union of wind and fire
हिहि indeed
अयम्इदम् (१.१) this
सहतिसहति (√सह कर्तरि लट् (परस्मै.) प्र.पु. एक.) combines with
ब्रह्मब्रह्मन् (१.१) spiritual power
यत्यत् since
अस्त्रतेजसाअस्त्रतेजस् (३.१) with the might of weapons
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
भू दु रा दः रै
र्गु रु णा ऽथ र्व वि दा कृ ता क्रि यः
ना ग्नि मा मो ह्य यं
तिं ब्र ह्म स्त्र ते सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.