Loading data... On slow networks this could take a few minutes.
100%

कृतवत्यसि नावधीरणा-
मपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं
जनमाभाष्यमिमं न मन्यसे ॥

अन्वयः AI यदा अपराद्धे अपि मयि चिरम् अवधीरणाम् न कृतवती असि, (तदा) कथम् एक-पदे निरागसम् इमम् जनम् आभाष्यम् न मन्यसे?
सञ्जीविनीटीका (मल्लिनाथः) कृतवतीति॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि। राधेः कर्तरि क्तः। यदा यस्माद्धेतोः। यदेति हेत्वर्थः। स्वरादौ पठ्यते यदेति हेतौ इति गणव्याख्यानात्। अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः। तत्कथमेकपदे तत्क्षणे। स्यात्तत्क्षण एकपदम्इति विश्वः। निरागसं नितरामनपराधमिमं जनम्। इमम्इति स्वात्मनिर्देशः। मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि? ॥
Summary AI When you never showed disregard for me for long, even when I had offended, how is it that you suddenly do not consider this faultless person (me) worthy of being spoken to?
सारांश AI मेरे अपराध करने पर भी तुमने कभी मेरी अवज्ञा नहीं की। फिर आज मुझ निर्दोष से बिना बात किए ही तुम क्यों मौन हो गई हो?
पदच्छेदः AI
कृतवतीकृतवत् (√कृ+क्तवतु+ङीप्, १.१) you have done
असिअसि (√अस् कर्तरि लट् (परस्मै.) म.पु. एक.) are
not
अवधीरणाम्अवधीरण (२.१) disregard
अपराद्धेअपराद्ध (अप√राध्+क्त, ७.१) when offended
अपिअपि even
यदायदा when
चिरम्चिरम् for long
मयिअस्मद् (७.१) towards me
कथम्कथम् how
एकपदेएकपद (७.१) suddenly
निरागसम्निरास् (२.१) faultless
जनम्जन (२.१) person
आभाष्यम्आभाष्य (आ√भाष्+ण्यत्, २.१) worthy of being spoken to
इमम्इदम् (२.१) this
not
मन्यसेमन्यसे (√मन् कर्तरि लट् (आत्मने.) म.पु. एक.) do you consider
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कृ त्य सि ना धी णा
रा द्धे ऽपि दा चि रं यि
मे दे नि रा सं
मा भा ष्य मि मं न्य से
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.