नवपल्लवसंस्तरेऽपि ते
मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं
वद वामोरु चिताधिरोहणम् ॥

अन्वयः AI वाम-ऊरु! ते यत् मृदु अङ्गम् नव-पल्लव-संस्तरे अपि अर्पितम् (सत्) दूयेत, तत् इदम् (अङ्गम्) चिता-अधिरोहणम् कथम् विषहिष्यते? वद ।
सञ्जीविनीटीका (मल्लिनाथः) नवेति॥ नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परिपप्तं भवेत्। वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु। वामं स्यात्सुन्दरे सव्ये इति केशवः। संहितशफलक्षण- इत्यादिनोङ्प्रत्ययः। तदिदमङ्गं चितायाः काष्ठसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥
Summary AI O you with beautiful thighs! Tell me, how will this delicate body of yours, which would feel pain even when placed on a bed of fresh sprouts, endure the mounting of the funeral pyre?
सारांश AI हे सुंदरी! तुम्हारे जो कोमल अंग नवीन पत्तों की शय्या पर भी कष्ट पाते थे, वे अब चिता की भीषण अग्नि को भला कैसे सहन करेंगे?
पदच्छेदः AI
नवपल्लवसंस्तरेनवपल्लवसंस्तर (७.१) on a bed of fresh sprouts
अपिअपि even
तेयुष्मद् (६.१) your
मृदुमृदु (१.१) delicate
दूयेतदूयेत (√दू कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) would feel pain
यत्यद् (१.१) which
अङ्गम्अङ्ग (१.१) body
अर्पितम्अर्पित (√ऋ+णिच्+क्त, १.१) placed
तत्तद् (१.१) that
इदम्इदम् (१.१) this
विषहिष्यतेविषहिष्यते (वि√सह् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will endure
कथम्कथम् how
वदवद (√वद् कर्तरि लोट् (परस्मै.) म.पु. एक.) tell
वामोरुवामऊरु (८.१) O you with beautiful thighs!
चिताधिरोहणम्चिताअधिरोहण (२.१) the mounting of the funeral pyre
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ल्ल सं स्त रे ऽपि ते
मृ दु दू ये ङ्ग र्पि तम्
दि दं वि हि ष्य ते थं
वा मो रु चि ता धि रो णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.