अधिकं शुशुभे शुभंयुना
द्वितयेन द्वयमेव संगतम् ।
पदमृद्धमजेन पैतृकं
विनयेनास्य नवं च यौवनम् ॥

अन्वयः AI शुभंयुना अजेन संगतम् ऋद्धम् पैतृकम् पदम्, अस्य विनयेन (संगतम्) नवम् यौवनम् च, (इति) द्वयम् एव द्वितयेन अधिकम् शुशुभे ।
सञ्जीविनीटीका (मल्लिनाथः) अधिकमिति॥ द्वयमेव शुभंयुना शुभवता। शुभंयुस्तु शुभान्वितः इत्यमरः (अमरकोशः ३.१.५० ) अहंशुभमोर्युस् (अष्टाध्यायी ५.२.१४० ) इति युस्प्रत्ययः। द्वितयेन संगतं युतं सदधिकं शुशुभे। किं केनेत्याह-पदमिति। पैतृकं पितुरागतम्। ऋतष्ठञ् (अष्टाध्यायी ४.३.७८ ) इति ठञ्प्रत्ययः। ऋद्धं समृद्धं पदं राज्यमजेन अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च। विजयो हीन्द्रियजयस्तद्युक्तः शास्त्रमर्हति इति कामभ्दकः। राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥
Summary AI Two pairs shone exceedingly bright when united: the prosperous ancestral position (kingship) combined with the auspicious Aja, and his own fresh youth combined with his humility.
सारांश AI दो वस्तुओं का मेल और भी शोभायमान हुआ: अज के द्वारा पैतृक सिंहासन और विनय के द्वारा उनकी नई युवावस्था।
पदच्छेदः AI
अधिकम्अधिक (२.१) exceedingly
शुशुभेशुशुभे (√शुभ् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) shone
शुभंयुनाशुभंयु (३.१) with the auspicious one
द्वितयेनद्वितय (३.१) by the pair
द्वयम्द्वय (१.१) a couple
एवएव indeed
संगतम्संगत (सम्√गम्+क्त, १.१) united
पदम्पद (१.१) position
ऋद्धम्ऋद्ध (√ऋद्ध+क्त, १.१) prosperous
अजेनअज (३.१) with Aja
पैतृकम्पैतृक (१.१) ancestral
विनयेनविनय (३.१) with humility
अस्यइदम् (६.१) his
नवम्नव (१.१) new
and
यौवनम्यौवन (१.१) youth
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
धि कं शु शु भे शु भं यु ना
द्वि ये द्व मे सं तम्
मृ द्ध जे पै तृ कं
वि ये ना स्य वं यौ नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.