समदुःखसुखः सखीजनः
प्रतिपञ्चन्द्रनिभोऽयमात्मजः ।
अहमेकरसस्तथापि ते
व्यवसायः प्रतिपात्तिनिष्ठुरः ॥

अन्वयः AI (अयम्) सखीजनः समदुःखसुखः, अयम् आत्मजः प्रतिपत्-चन्द्रनिभः, अहम् एकरसः (अस्मि) । तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः (अस्ति) ।
सञ्जीविनीटीका (मल्लिनाथः) समेति॥ सखीजनः समदुःखसुखः, त्वद्दुःखेन दुःखी, त्वत्सुखेन सुखीत्यर्थः। अयमात्मजो बालः, प्रतिपञ्चन्द्रनिभः। दर्शनीयो वर्धिष्णुश्चेत्यर्थः। प्रतिपत्शब्देन द्वितीया वक्षअयते; प्रतिपदि चन्द्रस्यादर्शनात्। अहमेकरसोऽभिन्नरामः। शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः (अमरकोशः ३.३.२४२ ) । तथापि। जीवितसामग्रीसत्त्वेऽपीत्यर्थः। ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः। प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च। प्रागल्भ्ये च प्रबोधे च इति विश्वः। स्मर्तुं न् शक्यः किमुताधिकर्तुमिति भावः ॥
Summary AI "Your friends share my sorrow and joy, this son of ours is like the new moon, and I am ever devoted to you. Despite all this, your decision (to depart) is cruel in its consequence."
सारांश AI समान दुख-सुख वाली सखियाँ और चंद्रमा के समान बढ़ता हुआ पुत्र होने पर भी तुम्हारा प्राण त्यागना अत्यंत निष्ठुर निर्णय है।
पदच्छेदः AI
समदुःखसुखःसमदुःखसुख (१.१) who shares sorrow and joy
सखीजनःसखीजन (१.१) the group of friends
प्रतिपच्चन्द्रनिभःप्रतिपत्चन्द्रनिभ (१.१) like the new moon
अयम्इदम् (१.१) this
आत्मजःआत्मज (१.१) son
अहम्अस्मद् (१.१) I
एकरसःएकरस (१.१) am solely devoted
तथापितथापि yet
तेयुष्मद् (६.१) your
व्यवसायःव्यवसाय (१.१) decision
प्रतिपत्तिनिष्ठुरःप्रतिपत्तिनिष्ठुर (१.१) is cruel in its consequence
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
दुः सु खः खी नः
प्र ति ञ्च न्द्र नि भो ऽय मा त्म जः
मे स्त था पि ते
व्य सा यः प्र ति पा त्ति नि ष्ठु रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.