अथ तेन दशाहतः परे
गुणशेषामपदिश्य भामिनीम् ।
विदुषा विधयो महर्द्धयः
पुर एवोपवने समापिताः ॥

अन्वयः AI अथ दशाहतः परे विदुषा तेन गुणशेषाम् भामिनीम् अपदिश्य महर्द्धयः विधयः पुरः एव उपवने समापिताः ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन। गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य। दशानामह्रां समाहारो दशाहः। तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिना समासः। समाहारस्यैकत्वादेकवचनम्। राजाहःसखिभ्यष्टच् (अष्टाध्यायी ५.४.५१ ) इति टच्। रात्राह्राहाः पुंसि (अष्टाध्यायी २.४.२९ ) इति पुंवत्। ततस्तसिल्। तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः। दशाहतः इत्यत्र विप्रः शुद्ध्योद्दशाहेन द्वादशाहेन भूमिपः(५।८३) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निर्गुणक्षत्रियविषयत्वात्। गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिःइति। सूच्यतेऽस्यापि गुणवत्त्वं विदुषा इत्यनेन ॥
Summary AI "Then, after ten days, the learned king, citing the lady who was now but a memory of virtues, completed the magnificent funeral rites in a garden just outside the city."
सारांश AI दस दिन बीतने पर राजा ने नगर के बाहरी उद्यान में अपनी प्रिय पत्नी के लिए समस्त गरिमामय अंत्येष्टि कर्म संपन्न किए।
पदच्छेदः AI
अथअथ Then
तेनतद् (३.१) by him
दशाहतःदशअहन् (+तसिल्) after ten days
परेपर (७.१) after
गुणशेषाम्गुणशेषा (२.१) who was remaining only in virtues
अपदिश्यअपदिश्य (अप√दिश्+ल्यप्) citing
भामिनीम्भामिनी (२.१) the lady
विदुषाविद्वस् (३.१) the learned one
विधयःविधि (१.३) the rites
महर्द्धयःमहाऋद्धि (१.३) magnificent
पुरःपुरस् outside the city
एवएव just
उपवनेउपवन (७.१) in a garden
समापिताःसमापित (सम्+णिच्√आप्+क्त, १.३) were completed
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
ते शा तः रे
गु शे षा दि श्य भा मि नीम्
वि दु षा वि यो र्द्ध यः
पु वो ने मा पि ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.