Loading data... On slow networks this could take a few minutes.
100%

असमाप्तविधिर्यतो मुनि-
स्तव विद्वानपि तापकारणम् ।
न भवन्तमुपस्थितः स्वयं
प्रकृतौ स्थापयितुं पथश्च्युतम् ॥

अन्वयः AI यतः मुनिः असमाप्तविधिः, (अतः) तव तापकारणम् विद्वान् अपि, पथः च्युतम् भवन्तम् प्रकृतौ स्थापयितुम् स्वयम् न उपस्थितः ।
सञ्जीविनीटीका (मल्लिनाथः) असमाप्तेति॥ यतो हेतोर्मुनिरसमाप्तविधिरसमाप्तक्रतुस्ततस्तव तापकारणं दुःखहेतुं कलत्रनाशरूपं विद्वाञ्जानन्निपि । विदेः शतुर्वसुः (अष्टाध्यायी ७.१.३६ ) इति वस्वादेशः। न लोक- (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः। पथश्च्युतं स्वभावाद्भ्रष्टं भवन्तं प्रकृतौ स्वभावे स्थापयितुम्। समाश्वासयितुमित्यर्थः। स्वयं नोपस्थितो नागतः ॥
Summary AI "Because the sage (Vashistha) has not yet completed his sacrificial rites, he has not come himself to restore you, who have strayed from the path, to your natural state, even though he knows the cause of your sorrow."
सारांश AI यज्ञ अधूरा होने के कारण मुनि स्वयं उपस्थित नहीं हो सके, फिर भी वे तुम्हें पुनः स्वाभाविक स्थिति में लाने का प्रयास कर रहे हैं।
पदच्छेदः AI
असमाप्तविधिःअसमाप्तविधि (१.१) he whose rites are unfinished
यतःयतः because
मुनिःमुनि (१.१) the sage
तवयुष्मद् (६.१) your
विद्वान्विद्वस् (१.१) knowing
अपिअपि although
तापकारणम्तापकारण (२.१) the cause of sorrow
not
भवन्तम्भवत् (२.१) you
उपस्थितःउपस्थित (उप√स्था+क्त, १.१) has come
स्वयम्स्वयम् himself
प्रकृतौप्रकृति (७.१) in your natural state
स्थापयितुम्स्थापयितुम् (णिच्√स्था+तुमुन्) to establish
पथःपथिन् (५.१) from the path
च्युतम्च्युत (√च्यु+क्त, २.१) who has strayed
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
मा प्त वि धि र्य तो मु नि
स्त वि द्वा पि ता का णम्
न्त मु स्थि तः स्व यं
प्र कृ तौ स्था यि तुं श्च्यु तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.