Loading data... On slow networks this could take a few minutes.
100%

अहमेव मतो महीपते-
रिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशते-
ष्वभवन्नास्य विमानना क्वचित् ॥

अन्वयः AI प्रकृतिषु सर्वः 'अहम् एव महीपतेः मतः' इति अचिन्तयत् । उदधेः निम्नगा-शतेषु इव अस्य क्वचित् (अपि) विमानना न अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) अहमिति॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः। अथवा, -प्रकृतिष्वित्यस्याहमित्यनेनान्वयः। व्यवधानं तु सह्यम्। सर्वोऽपि जनः प्रकृकतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः। मतिबुद्धिपूजार्थेभ्यश्च (अष्टाध्यायी ३.२.१८८ ) इति वर्तमाने क्तः, क्तस्य च वर्तमाने (अष्टाध्यायी २.३.६७ ) इति षष्ठी। इत्यचिन्तयदमन्यत। उदधेर्निम्रगाशतेष्विवास्य नृपस्य कर्तुः। कर्तृकर्मणोः कृति (अष्टाध्यायी २.३.६५ ) इति कर्तरि षष्ठी। क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत्, यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ॥
Summary AI Among his subjects, every single person thought, "I am the one favored by the king." Just as the ocean shows no disrespect to any of the hundreds of rivers flowing into it, he showed no disrespect to anyone.
सारांश AI प्रत्येक प्रजाजन यही समझता था कि राजा का मुझ पर विशेष स्नेह है; जैसे समुद्र सभी नदियों का समान आदर करता है, वैसे ही राजा ने किसी का तिरस्कार नहीं किया।
पदच्छेदः AI
अहम्अस्मद् (१.१) I
एवएव alone
मतःमत (√मत+क्त, १.१) am favored
महीपतेःमहीपति (६.१) by the king
इतिइति thus
सर्वःसर्व (१.१) everyone
प्रकृतिषुप्रकृति (७.३) among the subjects
अचिन्तयत्अचिन्तयत् (√चिन्त् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) thought
उदधेःउदधि (६.१) of the ocean
इवइव like
निम्नगाशतेषुनिम्नगाशत (७.३) towards hundreds of rivers
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
not
अस्यइदम् (६.१) his
विमाननाविमानना (१.१) disrespect
क्वचित्क्वचित् anywhere
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
मे तो ही ते
रि ति र्वः प्र कृ ति ष्व चि न्त यत्
धे रि नि म्न गा ते
ष्व न्ना स्य वि मा ना क्व चित्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.