तेनाष्टौ परिगमिताः समाः कथंचि-
द्वालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः
स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥

अन्वयः AI तेन सूनोः बालत्वात् अवितथ-सूनृतेन च, प्रियायाः सादृश्य-प्रतिकृति-दर्शनैः स्वप्नेषु क्षणिक-समागमोत्सवैः च कथञ्चित् अष्टौ समाः परिगमिताः ।
सञ्जीविनीटीका (मल्लिनाथः) तेनेति॥ अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन। सूनोः पुत्रस्य बालत्वात्। राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वन्तरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः। स्वप्नेषु क्षणिकाः क्षणभङ्गुरो ये समागमोत्सवास्तैश्च। कथंचित् कृच्छ्रेण। अष्टौ समा वत्सराः। संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः इत्यमरः (अमरकोशः १.४.२२ ) । परिगमिता अतिवाहिताः। उक्तं च-वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि। तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः॥ इति। प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम्। प्रहर्षिणीवृत्तमेतत् ॥
Summary AI He somehow passed eight years, sustained by his son's childhood and truthful, pleasant speech, by looking at portraits and resemblances of his beloved, and by the fleeting festivals of union with her in his dreams.
सारांश AI पुत्र के बालक होने के कारण राजा ने आठ वर्ष किसी तरह बिताए। इस दौरान वे चित्रों में प्रिया की प्रतिकृति देखकर और स्वप्नों में उनसे मिलकर संतोष करते रहे।
पदच्छेदः AI
तेनतद् (३.१) By him (Aja)
अष्टौअष्टन् (२.३) eight
परिगमिताःपरिगमित (परि√गम्+णिच्+क्त, २.३) were passed
समाःसमा (२.३) years
कथञ्चित्कथञ्चित् somehow
बालत्वात्बालत्व (५.१) due to the childhood
अवितथ-सूनृतेनअवितथसूनृत (३.१) and by the truthful and pleasant speech
सूनोःसूनु (६.१) of his son
सादृश्य-प्रतिकृति-दर्शनैःसादृश्यप्रतिकृतिदर्शन (३.३) by seeing portraits and resemblances
प्रियायाःप्रिया (६.१) of his beloved
स्वप्नेषुस्वप्न (७.३) in dreams
क्षणिक-समागमोत्सवैःक्षणिक–समागमोत्सव (३.३) by the festivals of momentary unions
and
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
ते ना ष्टौ रि मि ताः माः थं चि
द्वा त्वा वि सू नृ ते सू नोः
सा दृ श्य प्र ति कृ ति र्श नैः प्रि या याः
स्व प्ने षु क्ष णि मा मो त्स वै श्च
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.