तस्यता प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ॥

अन्वयः AI प्लक्ष-प्ररोहः सौध-तलम् इव, सा शोक-शङ्कुः किल तस्य हृदयम् प्रसह्य बिभेद । सः भिषजाम् असाध्यम् प्राण-अन्त-हेतुम् अपि तम् (शोकशङ्कुम्) प्रिय-अनुगमने त्वरया लाभम् मेने ।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ शोक एव शङ्कुः कीलः। शङ्कुः कीले शिवेऽस्त्रे च इति विश्वः। तस्याजस्य हृदयम्। प्लक्षप्ररोहः सौधतलमिव। प्रसह्य बलात्किल बिभेद। सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने। तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥
Summary AI Indeed, that stake of grief violently split his heart, just as a shoot of the Plaksha tree breaks through a palace terrace. He considered that grief, though incurable by physicians and the cause of his eventual death, a gain because it hastened his reunion with his beloved.
सारांश AI उनके हृदय का शोक-रूपी शूल अचानक वैसे ही फूट पड़ा जैसे भवन की छत को अंकुर फाड़ देता है। प्राणघातक होने पर भी उन्होंने उस रोग को प्रिया से मिलने का साधन मानकर सुखद समझा।
पदच्छेदः AI
तस्यतद् (६.१) his
सातद् (१.१) that
प्रसह्यप्रसह्य (प्र√सह्+ल्यप्) violently
हृदयम्हृदय (२.१) heart
किलकिल indeed
शोक-शङ्कुःशोकशङ्कु (१.१) the stake of grief
प्लक्ष-प्ररोहःप्लक्षप्ररोह (१.१) a shoot of the Plaksha tree
इवइव like
सौध-तलम्सौधतल (२.१) the terrace of a palace
बिभेदबिभेद (√भिद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) split
प्राण-अन्त-हेतुम्प्राणअन्तहेतु (२.१) which was the cause of the end of his life
अपिअपि even
तम्तद् (२.१) that (grief)
भिषजाम्भिषज् (६.३) for doctors
असाध्यम्असाध्य (२.१) incurable
लाभम्लाभ (२.१) a gain
प्रिय-अनुगमनेप्रियअनुगमन (७.१) in following his beloved
त्वरयात्वरा (३.१) with haste
सःतद् (१.१) he
मेनेमेने (√मन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) considered
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
स्य ता प्र ह्य हृ यं कि शो ङ्कुः
प्ल क्ष प्र रो सौ लं बि भे
प्रा णा न्त हे तु पि तं भि जा सा ध्यं
ला भं प्रि या नु ने त्व या मे ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.