सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगापसृष्टतनुदुर्वसतिं मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥

अन्वयः AI अथ नृपतिः सम्यक्-विनीतम् वर्म-हरम् कुमारम् प्रजानाम् रक्षण-विधौ विधिवत् आदिश्य, रोग-अपसृष्ट-तनु-दुर्वसतिम् मुमुक्षुः (सन्) प्रायोपवेशन-मतिः बभूव ।
सञ्जीविनीटीका (मल्लिनाथः) सम्यगिति॥ अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हरतीति वर्महरः कवचधारणार्हवयस्कः। वयसि च (अष्टाध्यायी ३.२.१० ) इत्यच्प्रत्ययः। तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्विध्यर्हम्। यथाशास्त्रमित्यर्थः। तदर्हम् (अष्टाध्यायी ५.१.११७ ) इति वतिप्रत्ययः। आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वसतिं दुःखावस्थइतिं मुमुक्षुर्जिहासुः सन्। प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव। प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः। अत्र पुराणवचनम्-समासक्तो भवेद्यस्तु पातकौर्महदादिभिः। दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः। स्वयं देहविनाशस्य काले प्राप्ते महामतिः। आब्रह्माणं वा स्वर्गादिमहाफलजिगीषया। प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु। नराणामथ नारीणां सर्ववर्णेषु सर्वदा॥ इति। अनयोर्वसन्ततिलकाच्छन्दः। तल्लक्षणम्-उक्ता वसन्ततिलका तभजा जगौ गः इति ॥
Summary AI Then, the king (Aja), after duly appointing his well-disciplined and grown-up son (Dasharatha) to the duty of protecting the subjects, became resolved to fast unto death, desiring to abandon the miserable dwelling of his body, which was afflicted by the disease of grief.
सारांश AI सुशिक्षित पुत्र को प्रजा-रक्षा का भार सौंपकर, रोगों से ग्रस्त शरीर को छोड़ने के इच्छुक राजा ने गंगा-सरयू संगम पर आमरण अनशन का निश्चय किया।
पदच्छेदः AI
सम्यक्-विनीतम्सम्यच्विनीत (२.१) well-disciplined
अथअथ Then
वर्म-हरम्वर्महर (२.१) capable of wearing armor
कुमारम्कुमार (२.१) the prince
आदिश्यआदिश्य (आ√दिश्+ल्यप्) having appointed
रक्षण-विधौरक्षणविधि (७.१) in the duty of protection
विधिवत्विधिवत् according to the rules
प्रजानाम्प्रजा (६.३) of the subjects
रोग-अपसृष्ट-तनु-दुर्वसतिम्रोग–अपसृष्टतनुदुर्वसति (२.१) the miserable dwelling of the body afflicted by disease
मुमुक्षुःमुमुक्षु (√मुच्+सन्+उ, १.१) desirous of leaving
प्रायोपवेशन-मतिःप्रायोपवेशनमति (१.१) whose mind was set on fasting unto death
नृपतिःनृपति (१.१) the king
बभूवबभूव (√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) became
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
म्य ग्वि नी र्म रं कु मा
मा दि श्य क्ष वि धौ वि धि त्प्र जा नाम्
रो गा सृ ष्ट नु दु र्व तिं मु मु क्षुः
प्रा यो वे ति र्नृ ति र्ब भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.