पितुरनन्तरमुत्तरकोसला-
न्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो
यमवतामवतां च धुरि स्थितः ॥

अन्वयः AI पितुः अनन्तरम्, समाधि-जित-इन्द्रियः महा-रथः दशरथः उत्तर-कोसलान् समधिगम्य, यमवताम् अवताम् च धुरि स्थितः (सन्) प्रशशास ।
सञ्जीविनीटीका (मल्लिनाथः) पितुरिति॥ समाधिना संयमेन जितेन्द्रियः। समाधिर्नियमे ध्याने इति कोशः। यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः। एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्। शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते॥ इति। दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास। अत्र मनुः(७।१४४)-क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् इति। द्रुतविलम्बितमेतद्वृत्तम्। तल्लक्षणम्-द्रुतविलम्बितमाह नभौ भरौ इति ॥
Summary AI After his father, Dasharatha, a great warrior who had conquered his senses through deep concentration, obtained the kingdom of North Kosala. Standing at the forefront of both the self-restrained and the protectors, he ruled.
सारांश AI पिता के पश्चात, अपनी इंद्रियों पर विजय प्राप्त करने वाले महारथी दशरथ ने उत्तर कोसल का शासन संभाला। वे संयमी राजाओं में अग्रणी और रक्षकों में श्रेष्ठ थे।
पदच्छेदः AI
पितुःपितृ (६.१) of his father
अनन्तरम्अनन्तरम् After
उत्तर-कोसलान्उत्तरकोसल (२.३) the kingdom of North Kosala
समधिगम्यसमधिगम्य (सम्+अधि√गम्+ल्यप्) having obtained
समाधि-जित-इन्द्रियःसमाधिजितइन्द्रिय (१.१) one who has conquered his senses through meditation
दशरथःदशरथ (१.१) Dasharatha
प्रशशासप्रशशास (प्र√शास् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) ruled
महा-रथःमहत्रथ (१.१) a great warrior
यमवताम्यमवत् (६.३) of the self-restrained
अवताम्अवत् (√अव्+शतृ, ६.३) of the protectors
and
धुरिधुर् (७.१) at the forefront
स्थितःस्थित (√स्था+क्त, १.१) standing
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
पि तु न्त मु त्त को ला
न्स धि म्य मा धि जि ते न्द्रि यः
थः प्र शा हा थो
ता तां धु रि स्थि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.