अधिगतं विधिवद्यदपालय-
त्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं
सनगरं नगरन्ध्रुकरौजसः ॥

अन्वयः AI नग-रन्ध्र-कर-ओजसः अस्य (दशरथस्य) यत् आत्म-कुल-उचितम् अधिगतम् प्रकृति-मण्डलम् विधिवत् अपालयत्, ततः (तत्) स-नगरम् गुणवत्तरम् अभवत् ।
सञ्जीविनीटीका (मल्लिनाथः) अधिगतमिति॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम्। अत्र प्रकृतिशब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते। यद्यस्माद्विधिवद्यथाशास्त्रमपालयत्। ततो हेतोः। रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः। कृञो हेतुताच्छील्यानुलोम्येषु (अष्टाध्यायी ३.२.२० ) इति टप्रत्ययः। नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः। कुमारः क्रौञ्चदारणः इत्यमरः (अमरकोशः १.१.५० ) । तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत्। तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥
Summary AI Because he, whose prowess could pierce mountains, duly protected the circle of his subjects which he had inherited in a manner befitting his dynasty, his kingdom, along with its cities, became even more prosperous.
सारांश AI दशरथ ने शास्त्रविधि के अनुसार अपने कुल की परंपरा का पालन करते हुए प्रजा की रक्षा की, जिससे उनकी राजधानी और संपूर्ण राज्य का वैभव पहले से कहीं अधिक बढ़ गया।
पदच्छेदः AI
अधिगतम्अधिगत (अधि√गम्+क्त, २.१) which was obtained
विधिवत्विधिवत् according to rules
यत्यद् (२.१) which
अपालयत्अपालयत् (√पाल् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he protected
प्रकृति-मण्डलम्प्रकृतिमण्डल (२.१) the circle of subjects
आत्म-कुल-उचितम्आत्मन्कुलउचित (२.१) befitting his own dynasty
अभवत्अभवत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) it became
अस्यइदम् (६.१) his
ततःततस् due to that
गुणवत्तरम्गुणवत्तर (१.१) more prosperous
स-नगरम्नगर (१.१) along with its cities
नग-रन्ध्र-कर-ओजसःनग–रन्ध्रकरओजस् (६.१) of him whose prowess could pierce mountains
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
धि तं वि धि द्य पा
त्प्र कृ ति ण्ड मा त्म कु लो चि तम्
स्य तो गु त्त रं
रं न्ध्रु रौ सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.