Loading data... On slow networks this could take a few minutes.
100%

उपगतोऽपि च मण्डलनाभिता-
मनुभितामनुदितान्यसितातपवारणः ।
श्रियमवेक्ष्य स रन्ध्रचलामभू-
दनलसोऽनलसोमसमद्युतिः ॥

अन्वयः AI च अनलसोमसमद्युतिः अनुदितान्यसितातपवारणः सः (दशरथः) अनुद्धृतां मण्डलनाभिताम् उपगतः अपि, रन्ध्रचलां श्रियम् अवेक्ष्य अनलसः अभूत् ।
सञ्जीविनीटीका (मल्लिनाथः) उपगत इति॥ अनुदित मनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजः कान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य। श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति। स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि। चक्रवर्ती सन्नपीत्यर्थः। अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ। इति केशवः। अनलसोऽप्रमत्तोऽभूत्। अजितमस्ति नृपास्पदम् इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्टतेत्यर्थथः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पर्ष्णिग्रहास्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावनयोश्चैव विजिगीषोस्तु पृष्टतःअरेश्च विजिगीषोश्च मध्यमोभूम्यनन्तरः। अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे॥ मण्डलाद्बहिरेषामुदासीनो बलाधिकः। अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः॥ इति॥ अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः। पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराश्च पृष्ठतः॥ इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती। दशरथश्चैतादृगिति तात्पर्यार्थः ॥
Summary AI And that king Dasharatha, whose splendor was like fire and the moon, and who was the sole sovereign, even after attaining the un-usurped position as the center of the circle of kings, remained diligent, seeing that royal fortune is prone to be unsteady through weaknesses.
सारांश AI चक्रवर्ती सम्राट होने पर भी सूर्य और चंद्रमा के समान तेजस्वी दशरथ कभी प्रमाद में नहीं पड़े, क्योंकि वे जानते थे कि राजलक्ष्मी अत्यंत चंचल होती है।
पदच्छेदः AI
उपगतःउपगत (उप√गम्+क्त, १.१) having attained
अपिअपि even
and
मण्डलनाभिताम्मण्डलनाभिता (२.१) the state of being the center of the circle of kings
अनुद्धृताम्अनुद्धृत (अन्+उत्√हृ+क्त, २.१) un-usurped
अनुदितान्यसितातपवारणःअनुदितअन्यसितआतपवारण (१.१) he for whom no other white royal umbrella was raised
श्रियम्श्री (२.१) royal fortune
अवेक्ष्यअवेक्ष्य (अव√ईक्ष्+ल्यप्) having seen
सःतद् (१.१) he
रन्ध्रचलाम्रन्ध्रचला (२.१) unsteady through weaknesses
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
अनलसःअन्अलस (१.१) diligent
अनलसोमसमद्युतिःअनलसोमसमद्युति (१.१) he whose splendor was equal to fire and the moon
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
तो ऽपि ण्ड ना भि ता
नु भि ता नु दि ता न्य सि ता वा णः
श्रि वे क्ष्य न्ध्र ला भू
सो ऽन सो द्यु तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.