तमलभन्त पतिं पतिदेवताः
शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशासिनां
दुहितरोऽहितरोपितमार्गणम् ॥

अन्वयः AI यथा शिखरिणां (दुहितरः) आपगाः सागरं (पतिम् अलभन्त), तथा मगधकोसलकेकयशासिनां पतिदेवताः दुहितरः अहितरोपितमार्गणं तं (दशरथं) पतिम् अलभन्त ।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ परिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः। तेषां राज्ञां दुहितरः पुत्र्यः। सुमित्राक-कौसल्या-कैकेय्य इत्यर्थः। अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम्। कदम्बमार्गणशराः इत्यमरः। तं दशरथँ शिकरिणां क्ष्माभृतां दुहितरः। आ समन्तादपगच्छन्तीति। अथवा, -आपेनाप्संबन्धिना वेगेन गच्छन्तीत्यापगाः इति क्षीरस्वामी। नद्यः सागरमिव। पतिं भर्तारमलभन्त प्रापुः ॥
Summary AI Just as rivers, the daughters of the mountains, obtain the ocean as their husband, so the virtuous daughters of the kings of Magadha, Kosala, and Kekaya obtained him (Dasharatha)—who had planted arrows in his foes—as their husband.
सारांश AI मगध, कोसल और केकय के राजाओं की पुत्रियों ने दशरथ को पति के रूप में प्राप्त किया, जैसे नदियाँ पर्वत छोड़कर अंततः सागर में ही जाकर मिलती हैं।
पदच्छेदः AI
तम्तद् (२.१) him
अलभन्तअलभन्त (√लभ् कर्तरि लङ् (आत्मने.) प्र.पु. बहु.) obtained
पतिम्पति (२.१) as husband
पतिदेवताःपतिदेवता (१.३) the virtuous women (princesses)
शिखरिणाम्शिखरिन् (६.३) of the mountains
इवइव like
सागरम्सागर (२.१) the ocean
आपगाःआपगा (१.३) rivers
मगधकोसलकेकयशासिनाम्मगधकोसलकेकयशासिन् (६.३) of the rulers of Magadha, Kosala, and Kekaya
दुहितरःदुहितृ (१.३) the daughters
अहितरोपितमार्गणम्अहितरोपितमार्गण (२.१) him who had planted arrows in his enemies
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
न्त तिं ति दे ताः
शि रि णा मि सा मा गाः
को के शा सि नां
दु हि रो ऽहि रो पि मा र्ग णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.