अजिनदण्डभृतं कुशमेखलां
यतगिरं मृगश्रृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षिता-
मसमभासमभासयदीश्वरः ॥

अन्वयः AI ईश्वरः (दशरथः) अधिवसन्, अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् अध्वरदीक्षिताम् असमभासं तनुम् अभासयत् ।
सञ्जीविनीटीका (मल्लिनाथः) अजिनेति॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तमजिनदण्डभृतम्। कृष्णाजिनं दीक्षयति। औदुम्बरं दीक्षितदण्डं यजमानीय प्रयच्छति इति वचनात्। कुशमयी मेखला यस्यास्तां कुशमेखलाम्। शरमयी मौञ्जी वा मेखला। तया यजमानं दीक्षियतीति विधानात्। प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम्। यतगिरं वाचंयमम्। वाचं यच्छति इति श्रुतेः। मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम्। कृष्णविषणया कण्डूयते इति श्रुतेः। अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन्। असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ॥
Summary AI That lord (Dasharatha), wearing it, made his own body—consecrated for the sacrifice, bearing a deerskin and staff, girdled with Kusha grass, with speech restrained, holding a deer's horn, and possessing unparalleled splendor—shine even more brightly.
सारांश AI मृगचर्म और कुशा की मेखला धारण करने वाले, मौन व्रतधारी तथा यज्ञ-दीक्षा लिए हुए राजा दशरथ अपनी अनुपम आभा से सुशोभित हो रहे थे।
पदच्छेदः AI
अजिनदण्डभृतम्अजिनदण्डभृत् (२.१) bearing a deerskin and a staff
कुशमेखलाम्कुशमेखला (२.१) having a girdle of Kusha grass
यतगिरम्यतगिर् (२.१) with speech restrained
मृगशृङ्गपरिग्रहाम्मृगशृङ्ग–परिग्रहा (२.१) holding a deer's horn
अधिवसन्अधिवसत् (अधि√वस्+शतृ, १.१) wearing
तनुम्तनु (२.१) the body
अध्वरदीक्षिताम्अध्वरदीक्षित (२.१) consecrated for a sacrifice
असमभासम्असमभास् (२.१) of unparalleled splendor
अभासयत्अभासयत् (√भास् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) he caused to shine
ईश्वरःईश्वर (१.१) the lord
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
जि ण्ड भृ तं कु मे लां
गि रं मृ श्रृ ङ्ग रि ग्र हाम्
धि सं स्त नु ध्व दी क्षि ता
भा भा दी श्व रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.