Loading data... On slow networks this could take a few minutes.
100%

अरुणरागनिषेधिभिरंशुकैः
श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः
स्मरबलैरबलैकरसाः कृताः ॥

अन्वयः AI विलासिनः अरुणरागनिषेधिभिः अंशुकैः, श्रवणलब्धपदैः यवाङ्कुरैः च, परभृताविरुतैः च, (एतैः) स्मरबलैः अबलैकरसाः कृताः।
सञ्जीविनीटीका (मल्लिनाथः) अरुणेति॥ विलासिनो विलसनशीलाः पुरुषाः। वौ कषलस- (अष्टाध्यायी ३.२.१४३ ) इत्यादिना घिनुण्प्रत्ययः। अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः। तैः। कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थथः। तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति। तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः॥ इति दण्डी। अंशुकैरम्बरैः। श्रवणेषु कर्णेषु लब्धपदैः। निवेशितैरित्यर्थः। यवाङ्कुरैश्च परभृताविरुतैः कोकिलाकूजितैश्च। इत्येतैः स्मरबलैः। कामसैन्यैः। अबलास्वेक एव रसो रागो येषां तेऽबलैकरसाः स्त्रीपरतन्त्राः कृताः ॥
Summary AI By the armies of the god of love—namely, fine garments of a reddish hue, barley sprouts placed upon the ears, and the songs of cuckoos—pleasure-loving men were made to find their sole delight in women.
सारांश AI लाल वस्त्रों, कानों पर रखे यवांकुरों और कोयलों की कूक ने कामदेव की सेना के रूप में प्रेमियों को पूरी तरह अपने वश में कर लिया।
पदच्छेदः AI
अरुणरागनिषेधिभिःअरुणरागनिषेधिन् (३.३) by those serving a reddish hue
अंशुकैःअंशुक (३.३) by fine garments
श्रवणलब्धपदैःश्रवणलब्धपद (३.३) which have found a place on the ear
and
यवाङ्कुरैःयवअङ्कुर (३.३) by barley sprouts
परभृताविरुतैःपरभृताविरुत (३.३) by the songs of cuckoos
and
विलासिनःविलासिन् (१.३) pleasure-seekers
स्मरबलैःस्मरबल (३.३) by the armies of the god of love
अबलैकरसाःअबलाएकरस (१.३) having women as their sole delight
कृताःकृत (√कृ+क्त, १.३) were made
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
रु रा नि षे धि भि रं शु कैः
श्र ब्ध दै श्च वा ङ्कु रैः
भृ ता वि रु तै श्च वि ला सि नः
स्म लै लै साः कृ ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.