परिचयं चललक्ष्यनिपातने
भयरुषोश्च तदिङ्गितवोधनम् ।
श्रमजयात्प्रगुणां च करोत्यसौ
तनुमतोऽनुमतः सचिवैर्ययौ ॥

अन्वयः AI असौ (मृगया) चललक्ष्यनिपातने परिचयम्, भयरुषोः च तदिङ्गितबोधनम् (करोति), श्रमजयात् च तनुम् प्रगुणाम् करोति। अतः सचिवैः अनुमतः (सन्) ययौ।
सञ्जीविनीटीका (मल्लिनाथः) परिचयमिति॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि। तेषां निपातने परिचयमभ्यासं करोति। भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति। तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवादिगुणवतीं च करोति। अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन् ययौ। सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥
Summary AI Hunting provides practice in hitting moving targets, teaches one to understand the signs of fear and anger in animals, and makes the body fit by overcoming fatigue. Therefore, permitted by his ministers, he went.
सारांश AI निशाना साधने का अभ्यास करने और शारीरिक स्फूर्ति बढ़ाने के उद्देश्य से मंत्रियों की अनुमति लेकर राजा शिकार के लिए निकले।
पदच्छेदः AI
परिचयम्परिचय (२.१) practice
चललक्ष्यनिपातनेचललक्ष्यनिपातन (७.१) in hitting moving targets
भयरुषोःभयरुष् (६.२) of fear and anger
and
तदिङ्गितबोधनम्तद्इङ्गितबोधन (२.१) understanding their signs
श्रमजयात्श्रमजय (५.१) from conquering fatigue
प्रगुणाम्प्रगुणा (२.१) fit
and
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes
असौअदस् (१.१) this (hunting)
तनुम्तनु (२.१) the body
अतःअतः therefore
अनुमतःअनुमत (अनु√मन्+क्त, १.१) permitted
सचिवैःसचिव (३.३) by the ministers
ययौययौ (√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) he went
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
रि यं क्ष्य नि पा ने
रु षो श्च दि ङ्गि वो नम्
श्र या त्प्र गु णां रो त्य सौ
नु तो ऽनु तः चि वै र्य यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.