Loading data... On slow networks this could take a few minutes.
100%

श्वगणिवागुरिकैः प्रथमास्थितं
व्यपगतानलदस्यु विवेश सः ।
स्थिगतुरंगमभूमि निपानव-
न्मृगवयोगवयोपचितं वनम् ॥

अन्वयः AI सः श्वगणि-वागुरिकैः प्रथम-आस्थितम्, व्यपगत-अनल-दस्यु, स्थित-तुरङ्गम-भूमि, निपानवत्, मृग-वयः-गवय-उपचितम् वनम् विवेश।
सञ्जीविनीटीका (मल्लिनाथः) श्वगणीति॥ स दशरथः। शुनां गणः स एषामस्तीति श्वगणिनः श्वप्राहिणः। तैः। वागुरा मृगबन्धनरज्जुः। वागुरा मृगबन्धनी इत्यमरः (अमरकोशः २.१०.२६ ) । तया चरन्तीति वागुरिका जालिकाः। चरति (अष्टाध्यायी ४.४.८ ) इति ठक्प्रत्ययः। द्वौ वागुरिकजालिकौ इत्यमरः (अमरकोशः २.१०.१४ ) । तैशअच प्रथममास्थइतमधिष्ठितम्। व्यपगता अनला दावाग्नयो दस्यवस्तस्कराश्च। यस्मात्तथोक्तम्। दस्युतस्करमोषकाः इत्यमरः (अमरकोशः २.१०.२४ ) कारयेद्वनविशोधनमादौ मातुरन्तिकमपि प्रविविक्षुः। आप्तशस्त्र्यनुगतः प्रविशेद्वा संकटे च गहने च न तिष्ठेत्॥ इति कामन्दकः। स्थिरा दृढा पङ्कादिरहिता तुरंगमयोग्या भूमिर्यस्य तत्। निपानवदाहावयुक्तम्। आहावस्तु निपानं स्याद्गुपकूपजलाशये इत्यमरः (अमरकोशः २.१०.२६ ) । मृगैर्हरिणादिभिर्वयोभिः पक्षिभिर्गवयैर्गोसदृशैररण्यपशुविशेषैश्चोपचितं समृद्धं वनं विवेश प्रविष्टवान् ॥
Summary AI He entered the forest, which had been previously secured by huntsmen with dogs and nets. It was cleared of fires and robbers, had firm ground for horses, possessed watering places, and was teeming with deer, birds, and gayals.
सारांश AI शिकारी कुत्तों और जाल बिछाने वालों के साथ राजा ने उस सुरक्षित, जलाशयों और पशुओं से भरे सघन वन में प्रवेश किया।
पदच्छेदः AI
श्वगणिवागुरिकैःश्वगणिन्वागुरिक (३.३) by huntsmen with dogs and nets
प्रथमास्थितम्प्रथमआस्थित (२.१) previously occupied
व्यपगतानलदस्युव्यपगतअनलदस्यु (२.१) from which fires and robbers were removed
विवेशविवेश (√विश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) entered
सःतद् (१.१) he
स्थिततुरङ्गमभूमिस्थिततुरङ्गमभूमि (२.१) where horses could stand firm
निपानवत्निपानवत् (२.१) having drinking places
मृगवयोगवयोपचितम्मृगवयस्गवयउपचित (२.१) abounding in deer, birds, and gayals
वनम्वन (२.१) the forest
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
श्व णि वा गु रि कैः प्र मा स्थि तं
व्य ता स्यु वि वे सः
स्थि तु रं भू मि नि पा
न्मृ यो यो चि तं नम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.