Loading data... On slow networks this could take a few minutes.
100%

तस्य स्तनप्रणयिभिर्मुहुरेणशावै-
र्व्याहन्यमानहरिणीगमनं पुरस्तात् ।
आविर्बभूव कुशगर्भमुखं मृगाणां
यूथं तदग्रसरगर्वितकृष्णसारम् ॥

अन्वयः AI तस्य पुरस्तात्, स्तनप्रणयिभिः एणशावैः मुहुः व्याहन्यमान-हरिणी-गमनम्, कुश-गर्भ-मुखम्, तत्-अग्रसर-गर्वित-कृष्णसारम् मृगाणाम् यूथम् आविर्बभूव।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ स्तनप्रणयिभिः स्तनपायिभिरेणशावैर्हरिणशिशुभिः। पृथुकः शावकः शिशु इत्यमरः (अमरकोशः २.५.४० ) । व्याहन्यमानं तद्वत्सलतया तद्गमनानुसारेण मुहुर्मुहुः प्रतिषिध्यमानं हरिणीनां गमनं गतिर्यस्य तत्। कुशा गर्भे येषां तानि मुखानि यस्य तत् कुशगर्भमुखम्। तस्य यूथस्याग्रेसरः पुरःसरो गर्वितो दृप्तश्च कृष्णसारो यस्य तत्। मृगाणां यूथं कुलम्। सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् सारो यस्य तत्। मृगाणां यूथं कुलम्। सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् इत्यमरः (अमरकोशः २.५.४० ) । तस्य दशरथस्य पुरस्तादग्र आविर्बभूव। वसन्ततिलका वृत्तम् ॥
Summary AI In front of him appeared a herd of deer. The movement of the does was repeatedly hindered by their fawns seeking the udder. The deer had mouths full of Kusha grass, and the herd was led by a proud black-buck.
सारांश AI राजा के सम्मुख हिरणों का वह झुंड आया जिसमें कृष्णसार मृग आगे था और हिरणियां अपने बच्चों के कारण धीरे चल रही थीं।
पदच्छेदः AI
तस्यतद् (६.१) His
स्तनप्रणयिभिःस्तनप्रणयिन् (३.३) by those fond of the udder
मुहुःमुहुर् repeatedly
एणशावैःएणशाव (३.३) by young deer
व्याहन्यमानहरिणीगमनम्व्याहन्यमानहरिणीगमन (१.१) where the movement of the does was being obstructed
पुरस्तात्पुरस्तात् in front
आविर्बभूवआविर्बभूव (आविस्√भू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) appeared
कुशगर्भमुखम्कुशगर्भमुख (१.१) whose mouths were full of kusha grass
मृगाणाम्मृग (६.३) of deer
यूथम्यूथ (१.१) a herd
तदग्रसरगर्वितकृष्णसारम्तद्अग्रसरगर्वितकृष्णसार (१.१) in which a black-buck, proud of leading it, was prominent
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्य स्त प्र यि भि र्मु हु रे शा वै
र्व्या न्य मा रि णी नं पु स्तात्
वि र्ब भू कु र्भ मु खं मृ गा णां
यू थं ग्र र्वि कृ ष्ण सा रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.