दिष्टान्तमाप्स्यति भवानपि पुत्रशोका
दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् ।
आक्रान्तपूर्वमिव मुक्तविषं भुजंगं
प्रोवाच कोसलपतिः प्रथमापराद्धः ॥

अन्वयः AI "भवान् अपि अन्त्ये वयसि अहम् इव पुत्र-शोकात् दिष्टान्तम् आप्स्यति" इति उक्तवन्तं, तम् आक्रान्त-पूर्वम् मुक्त-विषं भुजंगम् इव (स्थितं वृद्धं), प्रथम-अपराद्धः कोसल-पतिः प्रोवाच।
सञ्जीविनीटीका (मल्लिनाथः) दिष्टान्तमिति॥ हे राजन्! भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाह्रिष्टान्तं कालावसानम्। मरणमित्यर्थः। दिष्टः काले च दैवे स्याद्दिष्टम् इति विश्वः। आप्स्यति प्राप्स्यति। इत्युक्तवन्तम्। आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः। सुप्सुपेति समासः। तम्। प्रथममपकृतमित्यर्थः। मुक्तविषमपकारात्पश्चादुत्मृष्टविषं भुजंगमिव स्थितं तं वृद्धं प्रति प्रथमापराद्धः प्रथमापराधी। कर्तरि क्तः। इदं च सहने कारणमुक्तम्। शापदानात्पश्चादपराधी कोसलपतिर्दशरथः प्रोवाच ॥
Summary AI "You too, in your old age, will meet your end from grief for a son, just like me." To the old man who had spoken thus, who was like a serpent that has already discharged its venom, the lord of Kosala, who was the first offender, spoke.
सारांश AI मुनि ने शाप दिया कि तुम भी बुढ़ापे में पुत्र के शोक में प्राण त्यागोगे। पहले अपराध कर चुके राजा ने इस शाप को वैसे ही स्वीकार किया जैसे सर्प विष त्यागता है।
पदच्छेदः AI
दिष्टान्तम्दिष्टअन्त (२.१) death
आप्स्यतिआप्स्यति (√आप् कर्तरि लृट् (परस्मै.) प्र.पु. एक.) you will obtain
भवान्भवत् (१.१) you
अपिअपि also
पुत्रशोकात्पुत्रशोक (५.१) from grief for a son
अन्त्येअन्त्य (७.१) in the last
वयसिवयस् (७.१) age
अहम्अस्मद् (१.१) I
इवइव like
इतिइति thus
तम्तत् (२.१) to him
उक्तवन्तम्उक्तवत् (√वच्+क्तवतु, २.१) who had spoken
आक्रान्तपूर्वम्आक्रान्त (आ√क्रम्+क्त)पूर्व (२.१) who was previously attacked
इवइव like
मुक्तविषम्मुक्त (√मुक्त+क्त)विष (२.१) who has released his venom
भुजंगम्भुजंग (२.१) a serpent
प्रोवाचप्रोवाच (प्र√वच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) spoke
कोसलपतिःकोसलपति (१.१) the lord of Kosala
प्रथमापराद्धःप्रथमअपराद्ध (१.१) who had offended first
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
दि ष्टा न्त मा प्स्य ति वा पि पु त्र शो का
न्त्ये स्य मि वे ति मु क्त न्तम्
क्रा न्त पू र्व मि मु क्त वि षं भु जं गं
प्रो वा को तिः प्र मा रा द्धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.