इत्थं गते गतघृणः किमयं विधत्तां
वध्यस्तवेत्यभिहितो वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे
पुत्रं परासुमनुगन्तुमनाः सदारः ॥

अन्वयः AI "इत्थं गते, गत-घृणः तव वध्यः अयम् किं विधत्ताम्?" इति वसुधा-अधिपेन अभिहितः, सदारः परासुं पुत्रम् अनुगन्तु-मनाः सः मुनिः (तम्) हुताशनवतः एधान् ययाचे।
सञ्जीविनीटीका (मल्लिनाथः) इत्थमिति॥ इत्थं गते प्रवृत्ते सति। वसुधाधिपेन राज्ञा। गतघृणो निष्करुणः, हन्तृत्वान्निष्कृप इत्यर्थः। अत एव तव वध्यो वधार्होऽयं जनः। अयम् इति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः। किं विधत्तामित्यभिहित उक्तः, मया किं विधेयम्?इति विज्ञापित इत्यर्थः। स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन्। तुं काममनसोरपि इति मकारलोपः। हुताशनवतः साग्नीनेधान् काषअठानि ययाचे। न चात्रात्मघातदोषः-अनुषअठानासमर्थस्य वानप्रस्थस्य जीर्यतः। भृग्वग्निजलसंपतैर्मरणं प्रविधीयते॥ इत्युक्तेः ॥
Summary AI When addressed by the king, "This being the case, what should this pitiless person, your offender, do?", the sage, along with his wife and wishing to follow his dead son, asked him for firewood for a funeral pyre.
सारांश AI राजा द्वारा स्वयं को अपराधी मानकर दंड के लिए प्रस्तुत करने पर, अपनी पत्नी सहित मृत पुत्र का अनुगमन करने के इच्छुक मुनि ने चिता प्रज्वलित करने के लिए राजा से लकड़ियों की माँग की।
पदच्छेदः AI
इत्थम्इत्थम् thus
गतेगत (√गम्+क्त, ७.१) it being the case
गतघृणःगत (√गत+क्त)घृणा (१.१) devoid of pity
किम्किम् (२.१) what
अयम्इदम् (१.१) this one (I)
विधत्ताम्विधत्ताम् (वि√धा कर्तरि लोट् (आत्मने.) प्र.पु. एक.) should do
वध्यःवध्य (√वध्+ण्यत्, १.१) one who is to be punished
तवयुष्मद् (६.१) your
इतिइति thus
अभिहितःअभिहित (अभि√धा+क्त, १.१) addressed
वसुधाधिपेनवसुधाअधिप (३.१) by the king
एधान्एधस् (२.३) firewood
हुताशनवतःहुताशनवत् (६.१) for the fire (pyre)
सःतत् (१.१) that
मुनिःमुनि (१.१) sage
ययाचेययाचे (√याच् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) asked for
पुत्रम्पुत्र (२.१) son
परासुम्परअसु (२.१) lifeless
अनुगन्तुमनाःअनुगन्तुम् (अनु√गम्+तुमुन्)मनस् (१.१) wishing to follow
सदारःदार (१.१) with his wife
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्थं ते घृ णः कि यं वि त्तां
ध्य स्त वे त्य भि हि तो सु धा धि पे
धा न्हु ता तः मु नि र्य या चे
पु त्रं रा सु नु न्तु नाः दा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.