Loading data... On slow networks this could take a few minutes.
100%

उदयमस्तमयं च रघूद्वहा-
दुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभू-
त्सुहृदयोहृदयः प्रतिगर्जताम् ॥

अन्वयः AI वसुधाधिपाः रघूद्वहात् (अजात्) उदयम् अस्तमयं च उभयम् आनशिरे । हि सः निदेशम् अलङ्घयतां सुहृत्, प्रतिगर्जताम् अयोहृदयः अभूत् ।
सञ्जीविनीटीका (मल्लिनाथः) उदयमिति॥ वसुधाधिपा राजानः। उद्वहतीत्युद्वहो नायकः। पचाद्यच्। रघूणामुद्वहो रघुनायकः। तस्माद्रघुनायकादुदयं बृद्धिम्। अस्तमयं नाशं च। इत्युभयमानशिरे लेभिरे। कुतः? हि यस्मात्, स दशरथो निदेशमाज्ञामलङ्घ्यताम्। शोभनं हृदयमस्येति सुहृन्मित्रमभूत् सुहृद्दुर्हृदौ मित्रामित्रयोः (अष्टाध्यायी ५.४.१५० ) इति निपातः। प्रतिगर्जतां प्रतिस्पर्धिनाम्। अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत्। आज्ञाकारिणो रक्षति, अन्यान्मारयतीत्यर्थः ॥
Summary AI Other kings obtained both prosperity and downfall from Dasharatha, the promoter of the Raghu dynasty. For he was a friend to those who did not transgress his command, but iron-hearted towards those who defied him.
सारांश AI अन्य राजाओं का उत्थान और पतन रघुवंशी दशरथ के अधीन था। वे आज्ञा मानने वालों के लिए मित्र और विद्रोह करने वालों के लिए अत्यंत कठोर थे।
पदच्छेदः AI
उदयम्उदय (२.१) rise/prosperity
अस्तमयम्अस्तमय (२.१) downfall
and
रघूद्वहात्रघुउद्वह (५.१) from the promoter of the Raghus
उभयम्उभय (२.१) both
आनशिरेआनशिरे (√अश् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) obtained
वसुधाधिपाःवसुधाअधिप (१.३) kings
सःतद् (१.१) he
हिहि for
निदेशम्निदेश (२.१) command
अलङ्घयताम्अलङ्घयत् (६.३) of those who did not transgress
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
सुहृत्सुहृद् (१.१) a friend
अयोहृदयःअयस्हृदय (१.१) iron-hearted
प्रतिगर्जताम्प्रतिगर्जत् (६.३) of those who defied
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
स्त यं घू द्व हा
दु मा शि रे सु धा धि पाः
हि नि दे ङ्घ ता भू
त्सु हृ यो हृ यः प्र ति र्ज ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.