१.१.५

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥

अन्वयः

एतत् this, अहम् I, श्रोतुम् to listen, इच्छामि am desirous, मे my, कौतूहलम् curiosity, परं हि is great, महर्षे O Maharshi, त्वम् you, एवंविधम् of such (virtues), नरम् man, ज्ञातुम् to know, समर्थ: असि are competent.

M N Dutt

I have great curiosity to hear of such a person. You can, O Maharşi,* know about a man of this description. *A great saint. The word, however, signifies one belonging to a particular order of saints.

Summary

O Maharshi, I intend to hear about such a man whom you are able to place? Indeed great is my curiosity".

पदच्छेदः

एतद्एतद् (२.१)
इच्छाम्य्इच्छामि (√इष् लट् उ.पु. )
अहंमद् (१.१)
श्रोतुंश्रोतुम् (√श्रु + तुमुन्)
परंपर (१.१)
कौतूहलंकौतूहल (१.१)
हिहि (अव्ययः)
मेमद् (६.१)
महर्षेमहत्–ऋषि (८.१)
त्वंत्वद् (१.१)
समर्थोसमर्थ (१.१)
ऽसिअसि (√अस् लट् म.पु. )
ज्ञातुम्ज्ञातुम् (√ज्ञा + तुमुन्)
एवंविधंएवंविध (२.१)
नरम्नर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि च्छाम्य हं श्रो तुं
रं कौ तू लंहि मे
र्षे त्वं र्थोऽसि
ज्ञातु मे वंवि धं रम्