१.१०.१२

स त्वं पुरुषशार्दूल तमानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा सबलवाहनः ॥

अन्वयः

पुरुषशार्दूल greatest among men, महाराज O King, स: त्वम् such a man you are, सबलवाहन: along with his foreces and vehicles, स्वयमेव personally, गत्वा having gone, सुसत्कृतम् wellhonoured, तम् him, आनय bring.

M N Dutt

Therefore, do you, O tiger among men, repairing there, accompanied with your forces and equipage, yourself, O mighty king, bring Rşyasſrga over with due honours.

Summary

"Greatest among men, O king, along with vehicles and retinue, you may go and bring him (Rsyasringa) personally with due respect".

पदच्छेदः

तद् (१.१)
त्वंत्वद् (१.१)
पुरुषशार्दूलपुरुष–शार्दूल (८.१)
तम्तद् (२.१)
आनयआनय (√आ-नी लोट् म.पु. )
सुसत्कृतम्सु (अव्ययः)–सत्कृत (√सत्-कृ + क्त, २.१)
स्वयम्स्वयम् (अव्ययः)
एवएव (अव्ययः)
महाराजमहत्–राज (८.१)
गत्वागत्वा (√गम् + क्त्वा)
सबलवाहनः (अव्ययः)–बल–वाहन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वंपुरु शा र्दू
मासुत्कृ तम्
स्व मे हा रा
त्वा वा नः