१.१०.१७

लोमपादेन चाख्यातमृषिपुत्राय धीमते ।
सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत् ॥

अन्वयः

रोमपादेन by Romapada, सख्यम् friendship, सम्बन्धकं चैव relationship, धीमते to the intellectual, ऋषिपुत्राय son of the sage, आख्यातम् narrated, तदा then, तम् him (Romapada), प्रत्यपूजयत् in return felicitatetd.

Summary

Romapada explained his friendship and relationship with him (Dasaratha). Rsyasringa of great intellect in return felicitated Dasaratha.

पदच्छेदः

रोमपादेनरोमपाद (३.१)
चाख्यातम् (अव्ययः)–आख्यात (√आ-ख्या + क्त, १.१)
ऋषिपुत्रायऋषि–पुत्र (४.१)
धीमतेधीमत् (४.१)
सख्यंसख्य (१.१)
सम्बन्धकंसम्बन्धक (१.१)
चैव (अव्ययः)–एव (अव्ययः)
तदातदा (अव्ययः)
तंतद् (२.१)
प्रत्यपूजयत्प्रत्यपूजयत् (√प्रति-पूजय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लो पा दे चा ख्या
मृषि पु त्रा धी ते
ख्यं संन्ध कं चै
दा तं प्रत्य पू यत्