१.११.१३

ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम् ।
अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥

अन्वयः

तत: thereafter, राजा king, द्विजभाषितम् brahmin's words, श्रुत्वा having heard, प्रीत: अभवत् felt happy, राजा king, हर्षेण with delight, शुभाक्षरम् containing auspicious letters, इदं this, अब्रवीत् spoke.

M N Dutt

Hearing those words of the regenerate ones, the king was exceedingly delighted. And cheerfully he spoke these auspicious words to his courtiers.

Summary

On hearing the words of the brahmins, the king was pleased and said to his ministers with eyes excited with delight.

पदच्छेदः

ततःततस् (अव्ययः)
प्रीतोप्रीत (√प्री + क्त, १.१)
ऽभवद्अभवत् (√भू लङ् प्र.पु. एक.)
राजाराजन् (१.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तद्तद् (२.१)
द्विजभाषितम्द्विज–भाषित (√भाष् + क्त, २.१)
अमात्यांश्अमात्य (२.३)
चाब्रवीद् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
राजाराजन् (१.१)
हर्षेणेदंहर्ष (३.१)–इदम् (२.१)
शुभाक्षरम्शुभ–अक्षर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः प्री तोऽभ द्रा जा
श्रु त्वाद्द्वि भाषि तम्
मा त्यां श्चाब्र वी द्रा जा
र्षे णे दंशु भाक्ष रम्