१.१२.१०

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।
तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ॥

पदच्छेदः

भक्ष्यान्नपानैर्भक्ष्य–अन्न–पान (३.३)
बहुभिःबहु (३.३)
समुपेताःसमुपेत (√समुप-इ + क्त, १.३)
सुनिष्ठिताःसु (अव्ययः)–निष्ठित (√नि-स्था + क्त, १.३)
तथातथा (अव्ययः)
पौरजनस्यापिपौर–जन (६.१)–अपि (अव्ययः)
कर्तव्याकर्तव्य (√कृ + कृत्, १.३)
बहुविस्तराःबहु–विस्तर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्यान्न पा नैर्बहु भिः
मु पे ताःसु निष्ठि ताः
था पौ स्यापि
र्त व्याहु विस्त राः