१.१२.९

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥

पदच्छेदः

औपकार्याःऔपकार्य (१.३)
क्रियन्तांक्रियन्ताम् (√कृ प्र.पु. बहु.)
(अव्ययः)
राज्ञांराजन् (६.३)
बहुगुणान्विताःबहु–गुण–अन्वित (१.३)
ब्राह्मणावसथाश्ब्राह्मण–आवसथ (१.३)
चैव (अव्ययः)–एव (अव्ययः)
कर्तव्याःकर्तव्य (√कृ + कृत्, १.३)
शतशःशतशस् (अव्ययः)
शुभाःशुभ (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का र्याःक्रि न्तां
रा ज्ञांहुगु णान्वि ताः
ब्राह्म णा था श्चै
र्त व्याः शःशु भाः