१.१२.८

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।
इष्टका बहुसाहस्री शीघ्रमानीयतामिति ॥

पदच्छेदः

यज्ञकर्मयज्ञ–कर्मन् (२.१)
समीहन्तांसमीहन्ताम् (√सम्-ईह् लोट् प्र.पु. बहु.)
भवन्तोभवत् (१.३)
राजशासनात्राजन्–शासन (५.१)
इष्टकाइष्टका (१.१)
बहुसाहस्रीबहु–साहस्र (१.१)
शीघ्रम्शीघ्रम् (अव्ययः)
आनीयताम्आनीयताम् (√आ-नी प्र.पु. एक.)
इतिइति (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञर्म मी न्तां
न्तो रा शा नात्
ष्ट काहु सा स्री
शीघ्र मा नी तामिति