१.१३.१९

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।
शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥

अन्वयः

शास्त्रज्ञै: by the knowers of shastras, यज्ञकोविदै: who well versed in performance of sacrifice, कारिता: were made, एते सर्वे एव all these posts, तस्य यज्ञस्य of that sacrifice, शोभार्थम् for elegance, काञ्चनालङ्कृता: decorated with gold, अभवन् became.

Summary

All these posts were prepared by knowers of sastras and by those wellversed in the performance of sacrifices. They were decorated with gold to add elegance to the sacrifice.

पदच्छेदः

कारिताःकारित (√कारय् + क्त, १.३)
सर्वसर्व (१.३)
एवैतेएव (अव्ययः)–एतद् (१.३)
शास्त्रज्ञैर्शास्त्र–ज्ञ (३.३)
यज्ञकोविदैःयज्ञ–कोविद (३.३)
शोभार्थंशोभा–अर्थ (२.१)
तस्यतद् (६.१)
यज्ञस्ययज्ञ (६.१)
काञ्चनालंकृताकाञ्चन–अलंकृत (√अलम्-कृ + क्त, १.३)
भवन्भवन् (√भू प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कारि ताःर्व वै ते
शा स्त्र ज्ञै र्यज्ञ कोवि दैः
शो भा र्थंस्य ज्ञस्य
काञ्च ना लंकृ ता वन्