१.१४.१

मेधावी तु ततो ध्यात्वा स किंचिदिदमुत्तमम् ।
लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥

अन्वयः

तत: then, मेथावी great retentive intellectual, वेदज्ञ: knowledgeable in vedas, स: he, किञ्चित् for a little while, ध्यात्वा having pondered, तत: there after, लब्धसंज्ञ: recollected his memory, तम् that, नृपम् king, अब्रवीत् said.

M N Dutt

Then that one of capacious intelligence, versed in the Vedas, having pondered for a time, and regained his senses, returned to the king this excellent answer.

Summary

Rsyasringa, a highly intellectual and knowledgeable one in the Vedas, pondered for a while, revived his memory and said to the king.

पदच्छेदः

मेधावीमेधाविन् (१.१)
तुतु (अव्ययः)
ततोततस् (अव्ययः)
ध्यात्वाध्यात्वा (√ध्या + क्त्वा)
तद् (१.१)
किंचिद्कश्चित् (२.१)
इदम्इदम् (२.१)
उत्तमम्उत्तम (२.१)
लब्धसंज्ञस्लब्ध (√लभ् + क्त)–संज्ञा (१.१)
ततस्ततस् (अव्ययः)
तंतद् (२.१)
तुतु (अव्ययः)
वेदज्ञोवेद–ज्ञ (१.१)
नृपम्नृप (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मे धा वीतु तो ध्या त्वा
किंचिदि मुत्त मम्
ब्ध सं ज्ञस्त स्तंतु
वे ज्ञोनृब्र वीत्