१.१४.१५

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् ।
देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥

अन्वयः

तदा then, ब्रह्मणा by Brahma, समुदाहृतम् mentioned, एतत् these, प्रियं वाक्यम् delighted words, श्रुत्वा having heard, ते देवा: those devatas (celestial deities), महर्षय: maharshis, सर्वे all, प्रहृष्टा: अभवन् felt happy.

M N Dutt

Hearing this welcome speech uttered by Brahmā, the deities and the Maharșis became exceedingly delighted.

Summary

Having heard these pleasing words uttered by Brahma, all the devatas and maharshis were overwhelmed with joy.

पदच्छेदः

एतच्एतद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
प्रियंप्रिय (२.१)
वाक्यंवाक्य (२.१)
ब्रह्मणाब्रह्मन् (३.१)
समुदाहृतम्समुदाहृत (√समुदा-हृ + क्त, २.१)
देवादेव (१.३)
महर्षयःमहत्–ऋषि (१.३)
सर्वेसर्व (१.३)
प्रहृष्टास्प्रहृष्ट (√प्र-हृष् + क्त, १.३)
तेतद् (१.३)
ऽभवंस्अभवन् (√भू लङ् प्र.पु. बहु.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वाप्रि यं वा क्यं
ब्रह्म णामु दाहृ तम्
दे वार्ष यः र्वे
प्र हृ ष्टा स्तेऽभ वंस्त दा