१.१५.६

अवज्ञाताः पुरा तेन वरदानेन मानवाः ।
तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥

पदच्छेदः

अवज्ञाताःअवज्ञात (√अव-ज्ञा + क्त, १.३)
पुरापुरा (अव्ययः)
तेनतद् (३.१)
वरदानेनवर–दान (३.१)
मानवाःमानव (१.३)
तस्मात्तस्मात् (अव्ययः)
तस्यतद् (६.१)
वधोवध (१.१)
दृष्टोदृष्ट (√दृश् + क्त, १.१)
मानुषेभ्यःमानुष (५.३)
परंतपपरंतप (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ज्ञा ताःपु रा ते
दा ने मा वाः
स्मा त्तस्य धो दृ ष्टो
मानु षे भ्यः रं