१.१७.१८

यदा हि हयमारूढो मृगयां याति राघवः ।
तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥

अन्वयः

राघव: Raghava, हयम् horse back, आरूढ: mounting on, यदा whenever, मृगयाम् for hunting, याति goes, तदा then, स: Lakshmana, धनु: परिपालयन् holding bow in his hand, एनम् him (Rama), पृष्ठत: behind, अन्वेति followed.

Summary

Whenever Raghava (Rama) went hunting into the forest, riding the horse, Lakshmana used to follow him holding bow and arrows (in his hand).

पदच्छेदः

यदायदा (अव्ययः)
हिहि (अव्ययः)
हयम्हय (२.१)
आरूढोआरूढ (√आ-रुह् + क्त, १.१)
मृगयांमृगया (२.१)
यातियाति (√या लट् प्र.पु. एक.)
राघवःराघव (१.१)
तदैनंतदा (अव्ययः)–एनद् (२.१)
पृष्ठतोपृष्ठतस् (अव्ययः)
ऽभ्येतिअभ्येति (√अभि-इ लट् प्र.पु. एक.)
सधनुः (अव्ययः)–धनुस् (२.१)
परिपालयन्परिपालयत् (√परि-पालय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दाहि मा रू ढो
मृ यां याति रा वः
दै नं पृष्ठ तो ऽभ्येति
नुःरि पा यन्